पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६
काव्यमाला ।


चष्टे वक्ति चान्यथा । तस्योक्तस्योत्तरं ददातीति तदुत्तरदः । यद्वचनं यद्वाक्यम् । कैर्याचष्टे पदभीः। पदखण्नडयेत्यर्थः । सा श्लेषवक्रोक्तिज्ञेया । वक्रोक्तिस्तु द्विविधा, श्लेषवक्रोक्तिः काकुवक्रोक्तिश्च । तल्लक्षणयोश्च वैलक्षण्यानैकं लक्षणमस्तीति भेदेनाभि धानमुपपन्नम् ॥ तत्रोदाहरणमाह

कि गौरि मां प्रति रुषा ननु गौरहं किं
कुप्यामि कां प्रति मयीत्यनुमानतोऽहम् ।
जानाम्यतस्त्वमनुमानत एव सत्य
मित्थं गिरो गिरिभुवः कुटिला जयन्ति ॥ ११ ॥

किमिति । इत्थमेवं गिरो वाचो गिरिभुवो गौर्याः कुटिला वक्रा जयन्ति । क
धम् । प्रणयकुपितां गौरीं शंभुरनुनयनह--हे गौरि उमे, मां प्रति मामुद्दिश्य किं
तव रुषा रोषेण। तत्प्रसीदेत्यर्थः । एतदुत्तरदायिनी सान्यथा पदभीराह—ननु गौ.
रहं किम् । ननुरक्षमायाम् । किमहं गौस्त्वया कृत यद्रौरित्यामन्त्रयसे । कां
प्रति। मया कोपः कृतः यदात्थ किमिमां प्रति रुषेति । पुनः शंभुहअतोऽस्माद च
नुमानतोऽनुमानाद्वऋवचनलक्षणान्मयि विषये त्वं कुप्यसीत्यहं जान। भूयो भवान्याह-
लमनुमानत एव सत्यम् । न उमा अनुमा तस्या एव नतः । अस्मदनमनं केन तव।
इदानीं काकुवक्रोक्तिलक्षणमाह--

विस्पष्टं क्रियमाणादक्लिष्टा स्वरविशेषतो भवति । अर्थान्तरप्रतीतिर्यत्रासौ काकुवक्रोक्तिः ॥ १६ ॥ विस्पष्टमिति । यत्र स्वरविशेषादर्थान्तरप्रतीतिर्भवति । कीडशात् । विस्पष्टं स्फुटं क्रियमाणदुच्चार्यमाणात् । कीदृशी अर्थान्तरप्रतीतिः । अक्लिष्ट कल्पनारहिता सा

शल्यमपि स्खलदन्तः सोढं शक्येत हालहलदिग्धम् । धीरैर्नपुनरकारणकुपितखलालीकदुर्वचनम् ॥ १७ ॥ शल्यमिति । इदमनपराधकुपितखलवचनान्यसहमानं कश्चित्समुद्दीपयन्नाह--आ- स्तामन्यत् । शल्यमपि काण्डमपि स्खलदन्तर्मध्ये मर्मघट्नां कुर्वाणं सोढं क्षन्तुं श क्येत । कीदृशम्। हालहलेन विषेण दिग्धं लिप्तम् । धीरैधेयपेतैर्ने पुनरकारणकुपित- खलालीकदुर्वचनमित्येकोऽर्थः । एतदेव वाक्यं काका स्वरविशेषेण वदन्समाश्वासयति यथा शल्य अषि स्खलदन्तः सोढं शक्येत धीरैर्न पुनरकारणकुपितखलालीकदुर्वचनम्। १. उदाहृतोऽयं श्लोकः सरस्वतीकण्ठाभरणे द्वितीयपरिच्छेदे भोजेन. -