पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० अध्यायः ॥ काव्यालंकारः । १३७ यस्मिन्निति । यत्र वाक्येन पूर्ववत्प्रक्रान्तस्यार्थस्य तत्त्वं परमार्थं प्रसाधयदलंकुर्वाणम न्यद्वाच्यमर्थान्तरं गम्यते स तत्वश्लेषो विज्ञेयः ॥ उदाहरणमिदम् नयने हि तरलतारे सुतनु कपोलौ च चन्द्रकान्तौ ते । अधरोऽपि पझरागस्त्रिभुवनरत्नं ततो वदनम् ॥ २१ ॥ नयन इति । हे सुतनु, तव नयने चञ्चलकनीनिके । कपोलौ च चन्द्रवकान्तौ । प द्मवल्लोहित ओष्ठः। ततो वदनं मुखं त्रिभुवने रतं सरम् । जातौ यद्यदुत्कृष्टं तत्तद्रत्न मुच्यते । एनमर्थं प्रसाधयन्नयमन्योऽर्थो गम्यते । तव नयने तरले च तारे च। तरलो हारमध्यमणिः । तथा चन्द्रकान्ते मणिभेदः, पद्मरागश्च। यत चैतेऽवयवा रनरूपास्ततो वदनं त्रिभुवनरलं चिन्तामणिरेव । अस्माच्च पूर्वत्र विशेषोऽवयवमुखस्थितसमुदायविशे षणत्वमिति ।। अथ विरोधाभासः स इति विरोधाभासो यस्मिन्नर्थद्वयं पृथग्भूतम् । अन्यद्वाक्यं गमयेदविरुढं सद्विरुद्धमिव ॥ २२ ॥ स इति । स इत्यनेत प्रकारेण विरोधाभासोऽलंकारःयस्मिन्नेकमेव वाक्यमन्यदर्थद्वयं पृथग्भूतं गमयति । कीदृशमर्थद्वयम् । स्वरूपेणाविरुद्धमपि विरुद्धमिव लक्ष्यमाणम् । उदाहरणमाह -- तव दक्षिणोऽपि वामो बलभद्रोऽपि प्रलम् एष भुजः । दुर्योधनोऽपि राजन्युधिष्ठिरोऽस्तीत्यहो चित्रम् ॥ २३ ॥ तवेति । हे राजन् , तव बाहुर्भक्तान्भृत्यनुकूलत्वाद्दक्षिणोऽपि शङ्कन्प्रति प्रतिकूलतया वाम इत्यविरुद्धमर्थद्वयम् । तथा स एव बलेन भद्रोऽपि श्रेष्ठोऽपि प्रलम्बो दीर्घः । तथा दुःखेन योध्यत इति दुर्योधनोऽपि युधि समरे स्थिरोऽचञ्चल इत्यविरोधः । विरोधप्र- तिभासश्च दक्षिणवामयोः सव्येतररूपयोरन्यत्वात्, तथा बलभद्रप्रलम्बयौर्दूलधरासुरयो- रन्यत्वात्, तथा दुर्योधनयुधैिष्ठिरयोर्धार्तराष्ट्रपाण्डवयोभिन्नत्वाल्लक्ष्यते । अथ विरोधादस्य को विशेषः । उच्यते--तत्र यादृग्विशेषणमादौ निर्दिष्टं तत्प्रत्यनीकं पुनरुच्यते । यथा संवधतकमलोऽप्यवदलितनालिक इति । अत्र तु वाक्यान्तरार्थपर्यालोचनया विरोध च्छायास्तीति । अत्रापि भवति, यदि दुर्योधनोऽपि सुयोधन इत्युच्यते । अत एव विरो धाभाससंज्ञा ।

  • एवं शुद्धानलंकारान्सप्रभेदानाख्यायाधुना पूर्वकविलक्ष्यसिध्यर्थं संकीर्णस्तानाह -

एषां तु चतुर्णामपि संकीर्णानां स्युरगणिता भेदाः । तन्नामानस्तेषां लक्षणमंशेषु संयोज्यम् ॥ २४ ॥ १८