पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३ ६ काव्यमालां । गम्यते । कीदृशः । असंभवत्तद्विशेषण इति । असंभवन्ति तस्य प्रस्तुतार्थस्य संबन्धीनि विशेषणानि यस्य स तथोक्तः । तथा सुप्रसिद्धः ख्यात इति । उदाहरणमाह परिहृतभुजंगसङ्गः समनयनो न कुरुषे वृषं चाधः । नन्वन्य एव दृष्टस्त्वमत्र परमेश्वरो जगति ॥ १७ ॥ परिहृतेति । अत्र प्रकृतानुपलक्षणादर्थादन्योऽर्थी • महादेवलक्षणोऽसंभवद्विशेषणः प्रसिद्धो गम्यते । महादेवो हि विद्यमानवासुकिसङ्गस्त्रिनयनो वृषवाहनश्च । राजा तु दूरीर कृतविटः समदृष्टिः पूजितधर्मश्च। अस्य चालंकारस्यान्यैर्यतिरेक इति नाम कृतम् । अत्र तु न व्यतिरेकरूपेण साम्यं प्रतिपिपादयिषितम् । अन्यत्वमेव विशेषणान्तरयुक्त मिति । रूपकताशङ्काप्यत्र ने कार्या । साम्यस्य स्वयमेवाप्रकृतत्वादिति ॥ अथवयवश्लेषः यत्रावयवमुखस्थितसमुदायविशेषणं प्रधानार्थम् । पुष्यन्गम्येतान्यः सोऽयं स्यादवयवश्लेषः ॥ १८ ॥ यत्रेति । यत्र प्रधानार्थं पुष्यन्प्रकृतार्थपोषं कुर्वाणोऽन्योऽर्थो गम्यते सोऽवयवश्लेषः।। कीदृशं प्रधानार्थम्। अवयवमुखेनावयवद्वरेण स्थितानि कृतानि समुदायस्य विशेषणानि यत्र तत्तथोक्तम् । उदाहरणम् भुजयुगले बलभद्रः सकलजगछट्टने तथा बुलिजित् । अक्रूरो हृदयेऽसौ राजाभूदर्जुनो यशसि ॥ १९ भुजयुगल इति । स राजा भुजयुगले बलेन हेतुना भद्रः श्रेष्ठः । तथा सकलस्य जगतो लड्ने आक्रमणे कर्तव्ये बलिनः शक्तानपि जयत्यभिभवतीति बलिजित् । तथा' हृदयै मनस्यौरो मृदुः । यशसि चार्जुनः शुक्लः । अत्रैतानि विशेषणान्यवयवद्वारेण समुदायस्य स्थितानि । यस्मन्नात्र बलभद्रत्वादिकं भुजादीनाम् । अपि तु राजैव यदा भुजंयुगले बलेन भद्रस्तदा स एव बलभद्र इत्युच्यते । तथा सकलजगलंघने 'बलिजयंना बलिजित् । एवं हृदयस्यानूरत्वात्स एवाकूरः। यशसोऽर्जुनत्वास एवर्जुन इति । एवं प्रधानार्थं पोषयन्नयमन्योऽर्थोऽवगम्यते । यथा-बलभद्रो हलधरः । बलिजिद्वासुदेवः । अक्रूरो वृष्णिविशेषः । अर्जुनः पाण्डवः । एष एव चात्र प्रधानार्थपोषो यदन्येषां यानि नामानि तान्येवास्यान्वयेंनी प्रशंसाकारीणीति ॥ अथ तत्वश्लेषः. यस्मिन्वाक्येन तथा प्रक्रान्तस्य प्रसाधयत्तन्वम् । गम्येतान्यद्वाच्यं तवश्लेषः स विज्ञेयः ॥ २० ॥