पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ ० अध्यायः काव्यालंकारः। १३९ भुक्ता साहसिकेन येनं सहसा राज्ञां पुरः पश्यतां सा मेदिन्यपरैः परं परिहृता संवैरगम्येति या ॥ १३ ॥ नो इति । अत्र निन्दा तावत्-या सर्वैरेव लोकैरगम्यत्वात्परिहृता सा मेदिनी शि ल्पिविशेषनारी येन साहसिकेन राज्ञां पुरतः सहसैवं भुक्ता । तेन किं कृतम् । न पर लोकाद्रीतम्, न स्वजनो गणितः, मर्यादा च लङ्गिता, गोत्रस्थितिर्युक्तेति । अतोऽपि निन्दायाः प्रासङ्गिकी स्तुतिरेव गम्यते । यथा-सा मेदिनी भूयैनं साहसिकेन राज्ञां पुरः पश्यतां सहसा भुक्तात्मवशकृता । या सर्वैरेव राजभिर्युर्गमत्वादूरं परिहृता । तेन किं कृतम् । परलोकतः शत्रुलोकान्नो भीतम् । तथातिबलवत्त्वादात्मीयजनोऽपि साहाय्ये ना पेक्षितः। तथा मर्यादा स्वदेशसीमा लविता । तथा गोत्राः पर्वतास्तेषु स्थितिश्च मुक्ता । दुर्ग मुक्तमित्यर्थः । अथोक्तिश्लेष:-- यत्र विवक्षितमर्थं पुष्यन्ती लौकिकी प्रसिद्धोक्तिः । गम्येतान्या तस्मादुक्तिश्लेषः स विज्ञेयः ॥ १४ ॥ यत्रेति । यत्र तस्माद्विवक्षितार्थादन्या लोकप्रसिद्धोक्तिर्वचनं गम्यते स उक्तिश्लेषः। का तीस्यालंक्रियेत्याह--विवक्षितमर्थं पुष्यन्ती । एतदुक्तं भवति-प्रकृतोऽथ रम्यो भवतु, मा वा भूत्, लौकिकी चेदुक्तिर्गम्यते तथैव तस्य पोषः क्रियत इति ॥ उदाहरणमाह कलावतः संभृतमण्डलस्य यया हसन्यैव हृताशु लक्ष्मीः। नृणामपाङ्गन कृतश्च कामस्तस्याः करस्था ननु नालिकश्रीः ॥ १९ ॥ कलावत इति । कस्याश्चिद्पवर्णनं क्रियते-—कलावतश्चन्द्रस्य पूर्णबिम्बस्य यया हसन्त्यैवाशु शीघ्र लक्ष्मीः शोभा हृताभिभूता । नृणां चापान कटाक्षीण कामः कृतः । तस्या नालिकश्रीः पद्मशोभा करस्यैव । यया मुखेनाखण्डः शशी जितस्तया हस्तशो भया पद्ममपि नूनं जीयेतेत्यर्थ इति । एषोऽत्र विवक्षितोऽर्थः । एतस्यैव परिपोषं कुर्वा गान्या लौकिकी प्रसिद्धोक्तिर्गम्यते । यथा-यया नर्तक्या कलावतो विदग्धस्य संभृत- मण्डलस्य ससहायवृन्दस्य हसन्त्यैवाक्लेशेनैवांशु लक्ष्मीर्हता धनं भक्षितम् । नृणां चा पान हेलयैव कामः कृतः । तस्या नालिकश्रीर्मुग्धजनसंपत्करस्थितैवेति । एष एव चात्र पूर्वार्थपोषो यल्लोकप्रसिद्ध्योक्त्यवगम इति । अथासंभवश्लेष:” गम्येत प्रक्रान्तादसंभवत्तद्विशेषणोऽन्योऽर्थः । वाक्येन सुप्रसिद्धः स .ज्ञेयोऽसंभवश्लेषः ॥ १६ ॥ गम्येतेति । सोऽसंभवश्लेषो ज्ञेयः, यत्र वाक्येन प्रक्रान्तादर्थादन्योऽप्रस्तुतोऽर्थों