पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३४ काव्यमाला । अथ वक्रश्लेषः यत्रार्थादन्यरसंस्तत्प्रतिबद्धश्च गम्यतेऽन्योऽर्थः । वाक्येन सुप्रसिद्धो वक्रश्लेषः स विज्ञेयः ॥ ९ ॥ यत्रेति । यत्र वाक्येन स्वमर्थं ब्रुवतान्योऽर्थः प्रासङ्गिको गम्यते । कीदृशः। प्रकृताद न्यरसः । तथा तेन प्रकृतार्थेन प्रतिबद्धः। प्रतिबद्धता चैकविषयत्वेन । तथा सुप्रसिद्ध- स्तत्प्रतिबद्धत्वेन सुष्ठं प्रतीतः ॥ उदाहरणम् आक्रम्य मध्यदेशं विदधत्संवाहनं तथाङ्गानाम् । पताति करः कायामपि तव निर्जितकामरूपस्य ॥ १० ॥ आक्रम्येति । तव निर्जितकामरूपाख्यजनपदस्य संबन्धी करो नृपदेयभागः काशी नाम्नि यावद्देशे पतति । काश्यपि त्वया जितेत्यर्थः । किं कृत्वा । मध्यदेशं कान्यकुब्जा- दिकमाक्रम्याभिभूय । अनन्तरमङ्गानां देशविशेषाणां संवाहनमुपमर्दनं कुर्वन्निति । अथ गम्यमर्थान्तरं भण्यते—यथा तव तिरस्कृतमदनरूपस्य करो हस्तः कायां रशनाप्रदेशे पतति । मध्यदेशमुदमात्रम् । अङ्गानामूरुस्तनादीनां संवाहनं परिमलनं कुर्वन् । अयं चार्थः शृङ्गाररसयुक्तः। एकविषयत्वेन च पूर्वार्थप्रतिबद्धः । पूर्वत्र तु रसो वीराभिधः ॥ | अथ व्याजलपः- यस्मिन्निन्दा स्तुतितो निन्दाया वा स्तुतिः प्रतीयेत ।। अन्या विवक्षिताया व्याजश्लेषः स विज्ञेयः ॥ ११ ॥ यस्मिन्निति । यत्र स्तुतेर्विवक्षिताया अन्या प्रासङ्गिकी निद्रा प्रतीयते निन्दाया वा विवक्षितायाः प्रासङ्गिकी स्तुतिः स व्याजश्लेषः ॥ उदाहरणमाह त्वया मदर्थे समुपेत्य दत्तमिदं यथा भोगवते शीरम् । तथास्य ते दूति छतस्य शक्या प्रतिक्रियानेन न जन्मना मे ॥ १२ ॥ त्वयेति । अत्र कयापि नायिकया दूती दयितपाईं प्रेषिता । सा तु तत्र स्वार्थ कृतवती । समागत्यं चाधरक्षतादिकमुद्दिश्योत्तरं दत्तवती यथाहं तत्र त्वदर्थे गता सती सर्षेण दद्या, परं वैवैश्चिकित्सितेति जीविता । ततस्तां कृतदोषां दूत नायिका स्तुति द्वारेण निन्दति त्वयेत्यादिना । भोगवते इत्येकत्र सपीय, अन्यत्र विलासिने । प्रतिक्रिया त्वेकत्रोपकारःअन्यत्रापकरः । न भतं परलोकतो न गणितः सर्वः स्वकीयो जनो मर्यादापि च लङ्गिता न च तथा मुक्ता न गोत्रस्थितिः ।