पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३८ काव्यमाला । एषामिति । एष चतुर्थे वास्तवौपम्यातिशयश्लेषाणां संकीर्णानां मिश्राणां भेदाः स्युर्भ वन्ति । कियन्त इत्याह--अगणिताः । बाहुल्यपरमेतद्वचनम् । संख्या तु विद्यते । एषा त्विति तुरवधारणे । एषामेव । नान्यदलंकारजातमस्तीत्यर्थः । किं तेषां भेदानां नामे- त्याह-तनमान इति । येषामलंकाराणां मिश्रभावस्त एव मिलितास्तेषां नामेत्यर्थः । यदि सहोक्तेः समुच्चयस्य च संकरस्तदां सहोक्तिसमुच्चय इति नाम । उत सहोक्तेर्येति- रेकस्य च तदा सहोक्तिव्यतिरेक इति नाम । एवमन्यत्रापि दृश्यम् । कि तेषां तर्हि लक्षणमित्याह--तेषामित्यादि । तेषां संकरभेदानां लक्षणमंशेषु भागेषु संयोज्यम् । यस्यालंकारस्य योंऽशस्तदोयमेव तत्र लक्षणमित्यर्थः । अथ संकरस्यैव भेदानाह योगवशादेतेषां तिलतण्डुलवच्च दुग्धजलवच्च । व्यक्ताव्यक्तांशत्वात्संकर.उत्पद्यते त्रेधा ॥ २१ ॥ योगवशादिति । एतेषां वास्तवादीनां संकरो व्यक्ताव्यक्तांशत्वाद्धेतोर्दीधा द्विप्रकारों भवति । व्यक्ताव्यक्तांशवमपि कुत इत्याह—योगवशात् । तथाविंधसंबन्धवशादित्यर्थः। केषां यथा स स्यादित्याह-तिलतण्डुलवदित्यादि । तिलतण्डुलानां यथा व्यक्तांशः सं करःदुग्धजलयोऽव्यक्तांशस्तद्वदेतेषामपीत्यर्थः । अत्र हि दिमात्रप्रदर्शनार्थमाह अभियुज्य लोलनयना साध्वसजनितोरुवेपथुस्वेदा । अबलेव वैरिसेना नृप जन्ये भज्यते भवता ॥ २६ ॥ अभियुज्येति । त्वया सेनाभिर्युज्याक्रम्य भज्यते भङ्गां नीयते । । कीदृशी । भयवश लोलनयनां चञ्चलाक्षी । तथा साध्वसेन भयेन जनित उरुर्महान्वेपथुः कम्पः स्वेदश्च यस्याः । अत्राबलेव सेनेति । यथा येन केनचिद्वनिता भज्यते सेव्यते तेनाभियुज्याभि संत्यादौ ततो भज्यते । तथा सापि प्रथमसमागमवशाच्चञ्चलनेत्रा भवति । तस्या अपि साध्वसेनोर्वोर्वेपथुस्वेदौ भवत इति । इहाबलेवेत्येष उपमाविभागः । अभियुज्येत्यादि कस्तु श्लेषविभागः तयोर्लक्षणं स्वधिया योज्यम् । एतौ तिलतण्डुलवंप्रकटौ । । तथान्यदप्यत्रेवाह सन्नारीभरणो भवानपि न किं किं नाधिरूढो वृषं किं वा नो भवतां निककामविषमा दग्धाः पुरो विद्विषाम् । इत्थं द्व परमेश्वराविह शिवस्त्वं चैकरूपस्थिती तकि लोकविभो न जातु कुरुषे सङ्गं भुजंगैः सह ॥ २७ ॥ सन्नारीति । हे लोकविभो राजन्, इत्थमुक्तप्रकारेण त्वं हरश्च परमेश्वरौ । यस्मादे- करूपस्थिती तुल्यस्वभावव्यवहांगु । तत्कदांचिदपि भुजंगैः सह सङ्ग न कुरुषे । तदेव ।