पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ काव्यमाला । निश्चयगर्भादाहरणमाह एतकि शशिबिम्बं न तदस्ति कथं कलङ्कमद्धेऽस्य । किं वा वदनमिदं तत्कथमियमियती प्रभास्य स्यात् ॥ ६२ ॥ किं पुनरिदं भवेदिति सौधतलालक्ष्यसकलदेहायाः । वदनमिदं ते वरतनु विलोक्य संशेरते पथिकाः ॥ ६३ ॥(युग्मम्) एतदिति । किं पुनरिति । अत्रोपमाने शशिनि संभविनः कलङ्कस्याभावःउपमये खसंभविनः प्रभाबाहुर्यस्य सद्भाव उक्तः । वैपरीत्यं तु नोक्तम् । तदन्यत्र द्रष्टव्यम् । निश्चयान्तमाह किमयं हरिः कथं तद्रः किं वा हरः क्व सोऽस्य युषः । इति संशय्य भवन्तं नाम्ना निश्चिन्वते लोकाः ॥ ६४ ॥ किमिति । अत्रोपमाने कृष्णे गौरत्वमसंभवि विद्यते । हरे च संभविनो वृषस्याभावः। नामग्रहणाच्च निश्चयः। अस्मिन्निश्चयान्ते संशयगर्भलक्षणापेक्षा न कार्येति । तेन ‘उप मैये सदसंभवि' (८।६१) इत्यादिलक्षणाभावेऽपि भवति । यथा माघस्य –तावत्सरसि ‘किं सरोजमेतदारादाहोस्विन्मुखमवभासते तरुण्याः। संशय्य क्षणमिति निश्चिकाय कश्चि द्विव्बोकैर्बकसहवासिनां परोकैः ॥' इति । अन्येऽपि संशयभेदा विद्यन्त एव । यथा ‘यत्रोक्तेऽपि संदेहो साम्यतः निवर्तेत नैव । संशयोऽन्यः स विज्ञेयः शेषगर्भः स्फुटो यथा ॥ ’ ‘प्रत्यग्राहितचित्रवर्णकृतकच्छायो मयाथेक्षितः सौधे तत्र स कोऽपि कः पुनरसावेतन निधीयते । वाक्यं वक्ति न वक्त्रमस्ति न घृणोत्यंसावलम्बिश्रुतिश्चक्षुष्मांश्च निरीक्षते न विदितं तत्स ध्रुवं पार्थिवः ।’ —‘उपमेयमपहृत्य संदग्धुर्यत्र कथ्यते । तथा उपमांनमसावन्यः संशयो दृश्यते यथा ।।’ ‘यो गोपीजनवल्लभः स्तनतटव्यासङ्गलब्धा- स्पदच्छायावानवरक्तको बहुगुणश्चित्रश्चतुर्हस्तकः। कृष्णः सोऽपि हताशया व्यपहृतः कान्तः कयाप्यद्य मे किं राधे मधुसूदनो नहि नहि प्राणाधिकश्चोलकः ॥’ ‘ तथा अति शयकारिविशेषणयुक्तं यत्रोपमेयमुच्येत । साम्यादुपमानगते संदेहे संशयः सोऽन्यः ॥' यथा-‘भुजतुलिततुङ्गभूथ्स्वविक्रमाक्रान्तभूतलो जयति । क्रिमयं जनार्दनो नहि सक लजनानन्दनो देवः ।।' एवमन्येऽपि संशयप्रकारा लक्ष्यानुसारेण बोद्धव्या इति ।। भूयोऽपि भेदान्तरमाह यत्रानेकत्रार्थे संदेहस्त्वेककारकत्वगतः । स्यादेकत्वगतो वा सादृश्यात्संशयः सोऽन्यः ॥ ६५ ॥ यत्रेति । सोऽयमन्यः संशयो यत्रानेकत्रोपमानोपमेयलक्षणेऽर्थे कर्मादिकारकत्वविषयः संशयो भवति । अस्याः क्रियायाः किमुपमानं कारकं स्यादुतोपमेयमिति, इत्थं यत्र