पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ अध्यायः काव्यालंकारः । १११ दधे ।।' अत्र न स। शः । तत्केदमन्तर्भवतीत्युच्यते--सामान्ये रूपकलक्ष णमभिधाय तस्य वाक्यसमासभेदौ व्यापकावुक्तौ । तयोश्च सावयवादिभेदा यथासंभवं योज्याः। ततस्तस्मिन्मूलभेदद्वये संगताद्यनुक्तभेदानामन्तर्भावः ।। अथापहृतिः— अतिसाम्यादुपमेयं यस्यामसदेव कथ्यते सदपि। उपमानमेव सदिति च विज्ञेयापहृतिः सेयंम् ॥ १७ ॥ अतिसाम्यादिति । यस्यामुपमानोपमेययोरयन्तसाम्यादुपमेयं प्रस्तुतं वस्त्वविद्यमानं कथ्यते, उपमानमेव सत्तया, सेयमंपदुतिर्नाम । उत्प्रेक्षायां व्याजादिशब्दैरुपमेयस्य सत्व मष्युच्यते, इह तु सर्वथैवापह्नव इति विशेषः । उदाहरणम् नवबिसकिसलयकोमलसकलावयवा विलासिनी सैषा । आनन्दयति जनानां नयनानि सितांशुलेखेव ॥ ५८ ॥ नवेति । अत्रातिसादृश्याद्विलासिनीमुपमेयमपहृत्य शशिकलाया उपमानस्यैव सद्भावः कथितः ।। अथ सशयः वस्तुनि यत्रैकस्मिन्ननेकविषयस्तु भवति संदेहः । प्रतिपत्तुः सादृश्यादनिश्चयः संशयः स इति ॥ १९ ॥ वस्तुनीति । यत्रैकस्मिन्वस्तुन्युपमेये प्रतिपत्तुरनेकविषयः सादृश्यासंदेहो भवति, अनिश्चयान्तः स इत्येवंप्रकारः संशयनामालंकारः। तुविशेषे । उदाहरणम् किमिदं लीनालिकुलं कमलं किं वा मुखं सुनीलकचम् । इति संशेते लोकस्त्वयि सुतनु सरोवतीर्णयाम् ॥ ६० ॥ किमिति । अत्रैकस्मिन्मुखे कमलमुखविषयः सादृश्यादनिश्चयसंशयः ।। प्रकारान्तरमाह उपमेये सदसंभवि विपरीतं वा तथोपमानेऽपि । यत्र स निश्चयगर्भस्ततोऽपरो निश्चयान्तेऽन्यः ॥ ६१ ॥ उपमेय इति । यत्रोपमेये यद्वस्तु नैव संभवति तत्सत्कथ्यते, विपरीतं वा यत्सत्तदसं- भवि कथ्यते, अथोपमाने यदसंभवि तत्सत, यच्च सत्तदसंभवि कथ्यते सनिश्चयगर्भाख्यः संशयो भवति । ततोऽन्यथा तु यत्र पर्यन्ते निश्चयो भण्यते सोऽन्यो निश्चयान्ताख्यः ! संशयो द्वितीयः । पूर्वोक्तं सामान्यं संशयलक्षणमुभयत्र योज्यम् ।