पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८ अध्यायः काव्यालंकारः । १०७ - तु छद्मलक्ष्मव्याजव्यपदेशादिभिः शब्दैरुपमानोपमेययोरभेदो भेदश्च विवक्षित इति । प रमार्थतस्तूभयत्राभेद एवेति । उदाहरणम् साक्षादेव भवान्विष्णुर्भार्या लक्ष्मीरियं च ते । नान्यदुतसृजा सृष्टं लोके मिथुनमीदृशम् ॥ ३९ ॥ साक्षादिति । सुगममेव ।। अथ भेदान्तरमाह उपसर्जनोपमेयं कृत्वा तु समासमेतयोरुभयोः । यत्तु प्रयुज्यते ततूपकमन्यत्समासोक्तम् ॥ ४० ॥ उपसर्जनेति । एतयोरुपमानोपमेययोः समासं कृत्वा यत्पुनः प्रयुज्यते तदपरं समा सोक्तं रूपकम् । समासोपमाया रूपकत्वनिवृत्त्यर्थमाह-उपसर्जनमप्रधानमुपमेयं यत्र। यथा-दुर्जन एव पन्नगो दुर्जनपन्नगः । समासोपमायां तूपमानमुपसर्जनम् । यथा-श- शीव मुखं यस्याः सा शशिमुखी । तुःशब्दः समुच्चये । उभयग्रहणं नियमार्थम् । उभयो रेव समासे, न तृतीयस्यापि सामान्यपदस्येत्यर्थः । सामान्यं रूपकभेदद्वयमेतदभिधायेदानीमेतद्विशेषानाह सावयवं निरवयवं संकीर्ण चेति भिद्यते भूयः । इयमपि पुनर्द्विर्चैतत्समस्तविषयैकदेशितया ॥ ४१ ॥ सावयवमिति । एतद्वाक्यसमासलक्षणं रूपकद्वयं भूयः सावयवं निरवयवं संकीर्ण चे यमुना प्रकारेण त्रिधा भिद्यते । पुनश्च द्वयमपि वाक्यसमासलक्षणमेतद्रुपकं समस्तवि- षयतयैकदेशितया च द्विधा भिद्यते । न तु सावयवादिभेदभिन्नं सत् । निरवयवादिषु स र्वत्रासंभवात् । तेनात्र भेदद्वये सावयवादिप्रभेदानुप्रवेशो यथासंभवमेव भवतीति ॥ इदानीमेषामेव लक्षणमाह-तत्र सावयवम् उभयस्यावयवानामन्योन्यं तद्वदेव यत्क्रियते । तत्सावयवं त्रेधा सहजाहार्योभयैस्तैः स्यात् ॥ ४२ ॥ उभयस्येति । उभयस्योपमानोपमेयलक्षणस्य येऽवयवास्तेषां परस्परं यदूपणं तद्वदै वेति समस्तोपमावत्क्रियते तत्सावयवं रूपकम् । यथा समस्तोपमायामुपमानोपमेययोस्तर दवयवानां चौपम्यम्, एवमिहापि रूपणमित्यर्थः । तच्च सहजैराद्यैरुभयैश्च तैरवयवैत्रेधा स्यात्रिविधं भवेत् । उदाहरणम् ललनाः सरोरुहिण्यः कमलानि मुखानि केसरैर्दशनैः । अधरैदलैश्च तासां नवबिसनालानि बाहुलताः ॥ ४३ ॥