पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०८ काव्यमाला । ललना इति । एतद्वाक्यरूपकं सावयवं समस्तविषयं सहजावयवं च । आहार्यावयवं | तु यथा–‘गजो नगः कुथा मेघाः शृङ्खला: पन्नगा अपि । यन्ता सिंहोऽभिशोभन्ते भ्र- मरा हरिणास्तथा ॥’ उभयावयवं यथा-‘थस्या बीजमहंकृतिर्गुरुतरं मूलं ममेति प्रहो नित्यं तु स्मृतिरङ्रकुर: सुतसुहृज्ज्ञात्यादयः पल्लवाः । स्कन्धो दारपरिग्रहः परिभवः पुष्पं फलं दुर्गतिः सा मे त्वत्स्तुतिसेवया परशुना तृष्णालता लूयताम् ॥' इदानीं समासरूपकं सावयवं समस्तविषयं सहजावयवमुदाहर्तुमुचितम्, ग्रन्थकृता तु नोदाहृतम् । तच्चेत्थं यथा-‘वचनमधु नयनमधुकरमधरदलं दशनकेसरं तस्याः। मुखकमलमनुस्मरतः स्मर हतमनसः कुतो निद्रा’ । समासरूपकाहार्योदाहरणमाह-- विकसितताराकुमुदे गगनसरस्यमलचन्द्रिकासलिले। विलसति शशिकलहंसः प्रावृड्विपदपगमे सद्यः ॥ ४४ ॥ विकसितेति । अत्र गगनमुपमेयं सर उपमानम् । तयोश्च समासः । ताराज्योत्स्नाश- शिनो गगनस्याहार्यावयवाः । उपमानस्य तु ते यादृशास्तादृशा भवन्तु । नात्र तद्विवक्षा । प्रावृड्विपदिति रूपकमपि नोदाहरणत्वेन योज्यम् । अवयवत्वाभावात् ।। अथ समासरूपकोभयोदाहरणमाह- अलिकुलकुन्तलभाराः सरसिजवदनाश्च चक्रवाककुचाः । राजन्ति हंसवसनाः संप्रति वाणीविलासिन्यः ॥ ४५ ॥ अलीति । अत्र वाप्य उपमेया विलासिन्य उपमानभूताः । तयोः समासोऽत्र । वाप्या अलिकुलचक्रवाकहंसाः । कृत्रिमा अवयवाः। सरसिजानि तु सहजा विवक्षिताः । वि- लासिन्यश्च यथातथा भवन्तु । न तद्विवक्षा । अथ निरवयवमाह मुक्त्वावयवविवक्षां विधीयते यत्तु ततु निरवयवम् । भवति चतुर्धा शुद्धं माला रशना परम्परितम् ॥ १६ ॥ मुक्त्वेति । यत्त्ववयवविवक्षां त्यक्त्वा विधीयते तन्निरवयवं रूपकम् । तच्चतुर्धा । क- थमित्याह-शुद्धमित्यादि । अथ तल्लक्षणम्- शुद्धमिदं सा माला रशनाया वैपरीत्यमन्यदिदम् । यस्मिन्नुपमानाभ्यां समस्यमुपमेयमन्यार्थे ॥ ४७ ॥ शुद्ध मिति । इदमिति 'मुक्त्वावयवविवक्षाम्’ इति पूर्वलक्षणकं सा मालेति । यत्रैकं वस्त्वनेकसामान्यम् । ‘उपमीयेतानेकैरुपमानैरेकसामान्यैः'इत्येतदुपमालक्षणं यत्र रूपके तदित्यर्थः । रशनाया वैपरीत्यमिति । यो यः पूर्वोऽर्थः स स उत्तरेषामुपमानमित्युपमाल-