पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६ काव्यमला । भूयोऽपि भेदान्तरमाह-- यत्र विशिष्टं वस्तुनि सत्यसदारोप्यते समं तस्य । वस्त्वन्तरमुपपया संभाव्यं सापरोत्प्रेक्षा ॥ ३६ ॥ यत्रोत्प्रेक्षायां शोभनत्वेनाशोभनत्वेन वा विशेषणेन विशिष्टं वस्तुन्युपमेयरूपे सत्यवि. द्यमानमेव वस्त्वन्तरमुपमानलक्षणं समं समानमारोप्यते सापरान्योत्प्रेक्षा । ननु यद्यवि द्यमानं कथं सममित्यारोपस्तस्येत्याह--उपपरया युक्त्या संभाव्यं सावसरत्वात्संभावना योग्यं यत इत्यर्थः । अतिघनकुङ्कमरागा पुरः पताकेव दृश्यते संध्या । उदयतटान्तरितस्य प्रथयत्यासन्नतां भानोः ॥ ३७ ॥ अतिघनेति । अत्र विशिष्टं संध्याख्ये वस्तुन्यसदेव वस्त्वन्तरं पताकाख्यं साम्याद रोपितम् । तच्च युक्त्या संभाव्यम् । यतो रविरथे पताकया भाव्यम्, साप्युदयाचलव्यव-ई हितस्य रवेर्दश्यमाना सती नैकध्यं प्रकटयति । अथ यत्र साम्यमात्रे सति विनैवोपपत्या = संभावना भवति न चोपमाव्यवहारस्तत्र कोऽलंकारः । यथा-‘यश्चाप्सरोविभ्रममण्ड नानां संपादयित्रीं शिखरैबिभर्ति । बलाहकच्छेदविभक्तरागामकालसंध्यामिव धातुम ताम् ॥' तथा—‘आवजिता किंचिदिव स्तनाभ्याम्’ इत्यादिषु । अत्र ह्यकालसंध्यादीनां संभावने न काचिदुपपत्तिर्निदिष्टा । न चाप्युपमाव्यवहारः । यतः सिद्धमुपमानं भवति । न वा काले सिद्धत्वम् । तथा यद्यर्थाश्रवणान्नाप्युत्पाद्योपमाव्यवहारः । न चाप्यतिशयो स्पेक्षा संभवोऽस्ति । अत्रोच्यते-उपमायामसंभव उत्प्रेक्षायां त्वनुपपत्तिरत उभयत्रापि लक्षणस्य न्यूनतायामुपमाभासो वा स्यादुत्प्रेक्षाभासो वा। एवम् ‘पृथिव्या इव मानदण्डः इत्यादावपि द्रष्टव्यम् । सूत्रकारेणानुक्तं भेदान्तरमपि चास्यां विद्यते —‘कर्तुरुपमानयोगः सत्यौपम्येऽनिवादिरपि यत्र । संभाव्यतेऽनुरोधाद्विज्ञेया सा परोत्प्रेक्षा । यथा‘यः क रोति वधोदक नि:श्रेयसकरीः क्रियाः। ग्लानिदोषच्छिदः स्वच्छाः स मूढः पङ्कयत्यपः ॥' तथा-अरण्यरुदितं कृतं शवशरीरमुद्वर्तितं स्थले कमलरोपणं सुचिरमूषरे वषितम् । श्वपुच्छमवनामितं बधिरकर्णजापः कृतः कृतान्घमुखमण्डना यदबुधो जनः सेवितः ' ॥ अथ रूपकम् यत्र गुणानां साम्ये सत्युपमानोपमेययोरभिदा । अविवक्षितसामान्या कल्प्यत इति रूपकं प्रथमम् ॥ ३८ ॥ यत्रेति । यत्रोपमानोपमेययोर्गुणानां साम्ये तुल्यत्वे सति विद्यमाने प्रतीतिपथवारिण्या । भिदा तयोरैक्यं कल्प्यते तदित्यमुना प्रकारेण रूपकं प्रथमम् । उत्तरत्र समासग्रहणादिह । प्रथमशब्देन वाक्यरूपकं विवक्षितम् । उत्प्रेक्षायामप्यभेदो विद्यते, ततस्तन्निरासार्थमाह-- अविवक्षितसामान्येति । सदप्यत्र सामान्यं न विवक्ष्यते । सिंहो देवदत्त इति । उत्प्रेक्षायां