पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । १०१ येव सततंसमाबद्धतरंगभृकुटिलेखया खमिव क्षालयन्त्या सिप्रया परिक्षिप्ता, संकलभुवनख्या- तयशसा हरजटाचन्द्रेणेव कोटिसारेण मैना के नेवा विदितपक्षपातेन मन्दाकिनीप्रवाहणेच प्रक- टितकनकपद्मराशिना स्मृतिशास्त्रेणेव सभावसथकूपप्रपाराम सुरसैदनसेतुयन्त्रप्रवर्तकेन मन्द- रेणेवोद्धृतसमप्रसागर रत्नसारेण संगृहीतगारुडेनापि भुजंगभीरुणा खैलोपजीविनापि प्रणयिज- नोपजीव्यमान विभवेन वीरेणापि विनयवता प्रियंवदेनापि सत्यवादिनाभिरूपेणापि स्वदार- संतुष्टेनातिथिजनाभ्यागमार्थिनापि परंप्रार्थनानभिज्ञेन कामार्थपरेणापि धर्मप्रधानेन महास- । कालस्य महाकालाभिधानस्येश्वरस्य शिरसि मस्तके सुरसरितं गङ्गामालोक्य निरीक्ष्य सततं निरन्तरं समा. बद्धा राम्यक्प्रकारेणाबद्धा वन्धं प्रापिता ये तरंगा: कल्लोलास्त एव भृकुटिलेखा भृकुटिपलियया सा तथोपजाते- येयेवोत्पन्नासूययेव । एतेन सपत्नीदर्शनेन भृकुटिविकारो दर्शितः । खमिति | खमाकाशं क्षालयन्त्येव नि- मैलं कुर्वत्येवंविधया प्रिया सिप्रानद्या परिक्षिप्ता परिवेष्टिता | इभ्यजनवर्णनद्वारा नगरीं विशेषयन्नाह - विला. सिजनेनाधिष्ठितेति दूरेणान्वयः । तत्र विलासिनीनां जनो विलासी यो जन इत्येवं समासभेदेन द्वयोर्ग्रहणम् अथ विलासिजनविशेषणानि - कीदृशेनेव विलासिजनेन । हरजटाचन्द्रेणेवेश्वर जास्थनिशानाथेन इव । उभयं विशिनष्टि - सकलेति । सकलं समग्रं यद्भुवनं विश्वं तत्र ख्यातं प्रसिद्धं यशः कीर्तिर्यषां ते तथा । पक्षे यशः कान्तिर्यस्येति विग्रहः | कोटीति । कोटि: संख्याविशेषस्तावत्प्रमाणं सारं द्रव्यं येषां ते तथा । 'सारो द्रव्यं बलं सारम्' इत्यनेकार्थः । पक्षे कोटिरग्रभागस्तेन सारः प्रधानः | पुनः केनेव | मैनाकेनेव हिमाचलात्मजेनेव । उभयं विशिष्टि - अविदितेति । अविदितो अननुभूतः पक्षयोः पातच्छेदो येन स तथा तेन इन्द्रेण सर्वेषां भूभृतां पक्षच्छेदो विहितः; परं मैनाकस्य न कृत इति प्रसिद्धिः । प्रक्षेवि दितोऽज्ञातः पक्षपातोऽसदङ्गीकारो येन । मन्दाकिनीति | मन्दाकिनी गङ्गा तस्याः प्रवाहो रयस्तेनेव । उभयं विशेषयन्नाह — प्रकटितेति । प्रकटिता प्रकाशिता कनकस्य सुवर्णय | पद्मेति । पदैकदेशे पदस- मुदायोपचारात्पद्मरागमणीनां राशयः समूहा येन स तथा तेन । पक्षे कनकपद्मानां राशयः कमलसमूहाः | स्मृतीति । स्मृतिर्धर्मसंहिता तल्लक्षणेन शास्त्रेणेवा उभयं विशिनष्टि - लभेति । सभा संसदावसथं छात्रवतिनां वेश्म सामान्यतो गृहं वा, कूप उदपानः, प्रपा पानीयशाला, आरामः कृत्रिमं वनम्, सुरसदनं देवगृहम्, सेतुः पालिः, यन्त्रोऽरघकादिगृहाया श्रमस्थत्वात् एतेषां प्रवर्तकेन प्रयोजकेन | पक्षे धर्मजनकत्वात्तद्विधायके- नेत्यर्थः । मन्दरेति । मन्दरो मेरुस्तेनेव | तदुभयं विशिष्ट उद्धृतेति । उतानि समग्राण्य खिलानि सागरवत्समुद्र वद्रलेषु साराणि मुख्यरत्नानि येन | पक्ष उद्धृतानि वहिनीतानि समग्राणि सागरात्समु द्राद्रत्नसाराणि चतुर्दशरत्नानि येन | संगृहीतेनेति | संगृहीतं गारुडं रत्नं गारुडशास्त्रं वा येनैवंभूतेनापि भुजंगभीरुणेति विरोधः । तत्परिहारस्तु भुजंगो गणिकापतित वेत्यर्थात् । खलेति । खलं दुर्जनमुपजीवती- त्येवंशीलेनापि प्रणयिजनेन सजनजनेनोपजीव्यमानो भोग्यमानो विभवो यस्येति विरोधः । तत्परिहारस्तु खलं नवीनधान्यस्थापनस्थलमित्यर्थात्तदुपजीविना तदाश्रयेणाजीविकां कुर्वाणेत्यर्थः । वीरेति । वीरेणापि If III वीि