पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२ कादम्बरी । स्वेनापि परलोकभीरुणा सफल विज्ञानविशेषविदा वेदान्येन द॑क्षेण स्मितपूर्वाभिभापिणा परि- हासपेशलेनोज्ज्वलवेपेण शिक्षिताशेपदेशभापेण वक्रोक्तिनिपुणेनाख्यायिकाख्यानपरिचयचतु- रेण सर्वलिपिज्ञेन महाभारत पुराणरामायणानुरागिणा बृहत्कथाकुशलेन घृतादिकलाकलापपा- रगेण श्रुतरागिणा सुभापितव्यसनिना प्रशान्तेन मुरभिमासमारुतेनेव सततदक्षिणेन हिमगि- रिकाननेनेवान्तःसरलेनैव लक्ष्मणेनेव रामाराधननिपुणेन शत्रुनेनेवाविष्कृतभरतपरिचयेनं दिवसेनेव मित्रानुवर्तिना बौद्धेनेव सर्वास्तिवादरेण सांख्यागमेनेव प्रधानपुंरुपोपेतेन जिन- धर्मणव जीवनुकम्पिना बिलासिजनेनाधिष्ठिता, सशैलव प्रासादेः संशाखानगरेव महा- १ । रिहारस्तु कामो वाञ्छितो योऽर्थः पदार्थमात्परेण तत्साधनेत्यर्थात् | महेति । महासत्त्वेनापि महासत्त्वव- तापि परे शत्रस्पां लोकः समृहस्तम्माडीमणा सात विरोधः । तत्परिहारस्तु परलोको भवा- न्तर मियर्थात् | सकलेति । सकलं समग्र यत्रिज्ञानं शिलादि तस्य यो विशेषस्तारतम्यं तद्विदा तत्रा वदान्येन दानतत्परेण प्रियंवदेन च | 'प्रियंवदो दानशीलः स वदान्यः' इति कोशः | दक्षेण च- तुरेण । स्मितेति । अदृष्ट हास्यं स्मितं तत्पूर्व यथा सात्तयाभिभामिणा जल्पन | परीति । परिहासो नर्मवचस्तेन पेशलेन सुन्दरेण | ‘पेशलं हचसुन्दरम्' इति कोशः | उज्ज्वलेति । उज्ज्वलो निर्मला वेषो नेपथ्यं यस्य स तेन । शिक्षितेति । शिक्षिताभ्यस्ताशेपाणां समग्राणां देशानां जनप- दानां भाषा वाग्येन स तथा तेन | वक्रोक्तीति | वक्रोक्तिः कुटिला वचनपद्धतिस्तत्र निपुर्णन दक्षेण । आख्यायीति | आख्यायिका पुरावृत्तमाख्यानं सांगतं च तनू । तत्र यः परिचयः संस्तवस्तत्र चतुरेणाभिन | सर्वेति । सर्वाः समग्रा या लिपयोऽअरविन्यासास्तासां ज्ञेन तज्ज्ञानवता | महेति | महाभारतं प्रसिद्धम, पुराणं पचलक्षणम्, रामायणं रामचरित्रम्, तत्रानुरागिणा कृतम्लेहेन । वृहदिति । बृहत्कथा वासिष्ठादिकथा तत्र कुशलेन तद्रहस्यवेदिना | तादीति | द्यूताइयो दुरोदरप्रभृतयों याः कला विज्ञानैकदेशास्तासां कलापः समूहम्तय पारगेण पारधना | श्रुतं शास्त्रमात्रं तत्र रागिणास्य- न्नरप्रीतिमता | सुभाषितेति | सुभाषितानि नाटकादीनि तत्र व्यसनिनासक्तचित्तेन प्रशान्तेन को- धनिर्मुक्तन । तेनैव । सुरभीति । सुरभिमागो वसन्तमागस्तस मारुतो वायुस्तेनेव | सततेति । सनतं निरन्तरं दक्षिणा लागो गस्य स तथा तेन । पक्ष सततं दक्षिणेन दक्षिणदिग्गामिना | हिमेति । हिम- गिरिस्तुहिनाचलस्तस्य काननं वनं तेनेव | अन्तरिति । अन्तर्मध्ये सरलेनाकुटिलेन | पक्षे सरला वृक्ष- विशेषाः | लक्ष्मणेति । लक्ष्मणः सौमित्रिस्नेव । रामेति । रामस्य दाशरथैर्यदाराधनं समुपासनं नत्र निपुणेन कुशलेन । पक्ष रामाणां स्त्रीणामाराधनं सेवनम् । शत्रुघ्नेति । शत्रुघ्नो रामानुजस्तनेवावि- ष्कृतः प्रकृढीकृत भरते नाटयशाखे परिचयः परिचितिर्थेन स तथा पक्षे भरतः शत्रुनाता | दिवसेनेव वासरेव | मित्रमिति | मित्रं सुनुवनिंना मिनारायः पक्ष मित्रः सूर्यग्नदनुवर्तिना तदा- यत्तनत्यर्थः । बौद्धति । वौद्धः सुगनतेनेव | सर्वति। नर्वस वस्तुनो योऽस्तिवादः सर्वमस्तीति जल्पनं तत्र शुरेण धीरेण | कदाचिदपि नास्तीति नब्रुवन्तीति भावः | पक्षे सर्वास्तिवादो वौद्धानां निकाय भे ।