पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । भवनः, सकल्पवृक्षेव सत्पुरुषैः, दर्शित विश्वरूपेव चित्रभित्तिभिः, संध्येय पद्मरोगानुरागिणी, अमराधिपमूर्तिरिव मखशतानलधूमपूता पशुपतिलास्यक्रीडेव सुधाधवलाहासा, वृद्धेव जातरूपक्षया, गरुडमूर्ति रिवाच्युतस्थिति रमणीया, प्रभातवेलेव प्रबुद्ध सर्वलोका, शचरवसति- 'रिवावलम्वित चामर नागदन्तघवलगृहा, शेषतनुरिव सदासन्नवसुधाधरा, जलधिमथनवेलेव महाघोषपूरितदिगन्तरा, प्रस्तुताभिषेक भूमिरिव 'संनिहित कनकपटकसहस्रा, गौरीव महा- सिंहासनोचितमूर्तिः, अदितिरिव देवकुलसहस्रसेव्या, महावराहलीलेव दर्शित हिरण्याक्षपाता , १०३ । ग्रासार्दैर्देवभूपसदनैः । अतिमहत्त्वाच्छेलसाम्यम् । सशाखेति । शाखानगरमुपपुरं तेन सह वर्तमानेव । कैः । महाभवनैरुत्तुङ्गगृहैः । सानामतिदैर्ध्यण शाखा पुरोपमानम् | सकल्पेति | सह कल्पवृक्षण पारिजा- तेन वर्तमानेव | कैः । सत्पुरुषैर्महापुरुषैः । दातृत्वातिशयसाम्यात्कल्पवृक्षसाम्यम् | दर्शितेति । दर्शितानि प्रकाशितानि विश्वरूपाणि समग्ररूपाणि यथा सेव । काभिः | चित्रभित्तिभिरालेख्य सहितकुड्यैः । चित्रस्य सकलवस्तुप्रकटनसामर्थ्यात्तदुत्प्रेक्षा | संध्येव पितृप्रसूरिव | पद्मेति । पद्मरागो मणिस्तस्यानुरागो रक्तिमा यस्यां सा । अनेन रत्नवाहुल्यं दर्शितम् | पक्षे पद्मरागवदनुरागो यस्यामिति विग्रहः | अमरेति । अमरा- धिपः शतमखस्तस्य मूर्तिरिव मखानां शतं तस्य योऽनलो बहिस्तस्य यो धूमो दहनकेतनस्तेन पूता पवित्रा । एतेन याज्ञिकानां बाहुल्यमाविष्कृतम् | पक्ष मखशतं शताश्रमेधाः | शेषं पूर्ववत् । पश्चिति । पशुपति- रीवरस्तस्य लास्यकीडेव नृत्यकीडेव । सुवेति । सुधा गृहधवलीकरणद्रव्यं तेन धवला विषणय एव अहासो हास्यं यस्यां सा | पक्षे सुधामृतं तद्वद्ववलः शुम्रोऽट्टहासो महाहासो यस्यामिति विग्रहः । वृद्धव स्थविरेव । जातेति । जातरूपस्य सुवर्णस्य क्षया गृहाणि यस्यां सा | 'वसतिः शरणं क्षयः' इति कोशः । पक्षे जातो रूपस्य क्षयो नाशो यस्यामिति विग्रहः | गरुडेति | गरुडो गरुत्मांस्तस्य मूर्तिरिव । अच्युतेति | न च्युताच्युता सर्वदा स्थिरा या स्थितिर्मर्यादा तथा रमणीया मनोहारिणी | पक्षेऽच्युतस्य कृष्णस्य या स्थितिरवस्थानं तेन रमणीया | प्रभातेति । प्रभातं प्रत्यूषस्तस्य वेलाम्भसो वृद्धिः ( ? ) सेव । प्रबुद्धेति । प्रवुद्धा विशेषाभिज्ञाः सर्वलोकाः समग्रजना यस्यां सा | पक्षे प्रवुद्धा सुप्तोत्थिता । शेषं पूर्ववत् । शवरेति । शवरा भिल्लास्तेषां वसतिर्निवासस्थलं सेव अवलेति । अवलम्वितान्यालम्बितानि चाम- राणि वालव्यजनानि येध्वेवंविधा नागदत्ता दन्तका येष्वेवंभूतानि धवलगृहाणि राजगृहाणि यस्यां सा | पक्षेऽवलम्बितानि चामराणि नागदन्ता गजदन्तास्तर्धवलीकृतानि गृहाणि यस्यामिति विग्रहः । शपतनु. रिति । शेपो नागाविपस्तस्य तनुरिव शरीरमिव । सदेति । सन्तः शोभना आसन्नाः समीपस्था वसु धाधराः पर्वता यस्यां सा | पक्षे सदा सर्वकालमासन्नां समीपवर्तिनीं वसुधां पृथ्वीं धारयति सा तथा । जलधीति । जलधिः समुद्रस्तस्य मथन आलोडने या वेला सेव | महेति । महाघोपा महत्य आभीरप- लिकास्ताभिः पूरितानि चितानि दिगन्तराणि यस्यां सा | 'घोषस्त्वामीरपलिका' इति कोशः | पक्षे महा- घोषो महारवः । शेषं पूर्ववत् । प्रस्त्विति । प्रस्तुतः प्रारब्धो योऽभिषेकोऽभिषिञ्चनं तस्य या भूमिः