पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४ कादम्बरी । कैरिवानन्दित भुजंगलोका, हरिवंशकथेवा नेकवालक्रीडारमणीया, प्रकटाङ्गनोपभोगाप्यख ण्डितचरित्रा, रक्तवर्णापि सुधाधवला, अवलम्बितमुक्ताकलापापि विहारभूषणा, बहुप्रकृति- रपि स्थिरा, विजितामरलोकयुतिरवन्तीपूज्जयिनी नाम नगरी । यस्यामुत्तुङ्गसौधोत्सङ्ग संगीतसङ्गिनीनामङ्गनानामतिमधुरेण गीतरवेणाकृष्यमाणाधोमु- खरथतुरंगः पु॒रः पर्यस्तरथपताकापटः कृतमहाकालप्रणाम इव प्रतिदिनं लक्ष्यते गच्छन्दिवस- करः । यस्यां च संध्यारागारुणा इव सिन्दूरमणिकुट्टिमेषु प्रारब्धंकमलिनी परिमण्डला इव मरकत वेदिकासु, गंगनैपर्यस्ता इव वैडूर्यमणिभूमिपु, तिमिरपटलविघटनोद्यता इव कृष्णागुरु, सुवर्णस्य येऽक्षाः पाशास्तेषां पातो यस्यां सा । पक्षे हिरण्यदैत्यस्याक्षाणामिन्द्रियाणां पातो नाशो यस्याम् । कद्भूरिति । कनूर्नागमाता सेव । आनन्दितेति । आनन्दितः प्रमोदं प्रापितो भुजंगलोको गणिकापतिजनो यस्यां सा । पक्षे भुजंगलोकः सर्पसमुदाय: । हरिवंशेति । हरिवंशनाम्नो ग्रन्थस्य या कथा प्रवन्धः सेव | अनेकेति । अनेकानां ( ? ) वालानां शिशूनां या क्रीडा खे- लनं तया रमणीया मनोहरा | पक्षेऽनेका वह्नयो बालनाम्नो नृपस्य क्रीडोद्यानगमनादिरूपा तथा मनोहरा चि ताकर्षिणी | प्रकारान्तरेण पुनस्तामेव वर्णयन्नाह – प्रकटेति । प्रकटं स्पटमङ्गनायाः स्त्रिय उपभो- गो यस्यामेवंभूताप्यखण्डितचरित्रेति विरोधः | तत्परिहारस्तु प्रकटाङ्गनानामुपभोगस्ताम्वूलादिरित्यर्थांदख- ण्डितं चरित्रं लोकप्रशंसा रूपमस्यामिया | रक्तेति | रक्तवर्णाप्यरुणवर्णापि सुधा पूर्वव्याख्याता तद्व- द्धवलेति विरोधः । तत्परिहारस्तु रक्ता अनुरक्ता वर्णा ब्राह्मणादयो यस्यामित्यर्थात् । अवेति । अवलम्बित आलम्बनीकृतो मुक्ताकलापो मुक्ताप्रालम्बो ययैवंभूतापि विगत त्रुटितो रतादौ यो हारः स एव भूषणम लंकृतिर्यस्यामिति विरोधः । तत्परिहारस्तु विहारा जैनप्रासादा इत्यर्थात् | 'विहारो जिनसमनि' इति कोशः । बह्निति | बही प्रकृतिर्यस्यामेवंविधापि स्थिरेति विरोध: । तत्परिहारस्तु बह्वयः प्रकृतयः पौरलोकाः । विजीति | विशेषेण जिता अमरलोकस्य देवलोकस्य द्युतिः कान्तिर्यया सा । अवन्तीपु मालवेषु | अन्व यस्तु प्रागेवोक्तः । यस्यामिति । यस्याम् उज्जयिन्याम् | उत्तुङ्गेति । उत्तुङ्गमुच्चं सौधं धवलं गृहं तस्योत्सङ्ग उपरिप्रदे- शस्तस्मिन्यत्संगीतं गीतनृत्यादि तत्र सङ्गिनीनां व्यासक्तानामङ्गनानां स्त्रीणामतिमधुरेणातिमिष्टेन गीतरवेण गानस्वरेणाकृप्यमाणा अधोमुखा अवाङ्मुखा रथस्य सन्दनस्य तुरंगा अश्वा यस्य सः | पुरोऽग्रे पर्यस्तः क्षिप्तो रथस्य पताकापटो वैजयन्तीपटो येनैवंभूतो गच्छन्त्र जन्दिवसकरः सूर्यः | आकृष्यमाणाधोमुखरथतु- रगव्याजेन कृतो विहितो महाकालस्य ज्योतिर्लिनात्मकशंकरस्य प्रमाणो येनैवंभूत इव प्रतिदिन महर्निश लक्ष्यते दृश्यते । जनैरिति शेषः । यस्यां चेति । यस्यामुज्जयिन्यां रविगभस्तयः सूर्यकिरणाः । सिन्दू- रेति | सिन्दूरमणयो मणिविशेपास्तेषां कुहिमेपु तदारुण्यप्रतिविम्बात्संध्यारागेनारुणा इव | संलक्ष्य इति क्रियायाः पूर्वतः परतो वा राजत इति क्रियायाः सर्वत्रानुपः किरणेषु मरकतहरितप्रतिविम्वादाह -