पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । १०५ धूममण्डलेपु, अभिभूततारकापय इव मुक्ताप्रालम्वेषु, विकचकमलचुम्बिन इव नितम्ब नीमुखेषु, प्रभातचन्द्रिकामध्यपतिता इव स्फैटिकभित्तिप्रभासु, गगनसिन्धुरंगावलम्बिन इव सितपत्ताकांशुकेपु, पल्लविता इव सूर्यकान्तोपलेपु, राहुमुखकुरप्रविष्टा इवेन्द्रनीलवासाय- नविवरेषु विराजन्ते रविगभस्तयः । यस्यां चानुपजाततिमिरत्वादविघटितचक्रवाकमिथुना व्यर्थीकृतसुरतप्रदीपा: संजातम दनानलदिग्दाहा इव यान्ति कामिनीनां भूषणप्रभाभिर्वालातपपिञ्जरा इव रजन्यः । यां च संनिहित विषमलोचनामनवरतमतिमधुरो रतिप्रलाप ईव प्रसर्पन्मुखरीकरोति मकरकेतुदाहहे- तुभूतो भवनकुलहं संकुलकोलाहलः । यस्यां च निशि निशि पवनविलोलैर्दुकुल पसरुल्लसद्धि कृष्णागुरुः काकतुण्डस्तरय धूमास्तेषां मण्डलेषु पटलेषु । मुक्तानां स्वच्छताविशेषसंक्रमादाह — अभिभूतेति । अभिभूतास्तारकत्वेनानिर्धार्यमाणास्तारकाणां नक्षत्राणां पयो लेखा यैस्तादृशा इव मुक्ताप्रलम्वेषु मुक्ताक- लापेषु | मुखस्य विकचकगलसाम्यादाह-विकचेति | विकचानि विकस्वराणि यानि कमलानि तचु- म्विन इव नितम्बिनीमुखेषु प्रमदावदनेषु । अत्र सिन्दूरमरकतवैर्यधूमेषु तद्रूपविशेपातिशयो व्यज्यते । मु- खेऽभङ्गुरगुणवत्त्वकमलापेक्षया कमलस्य भङ्गुरगुणवत्वात्स्फटिकरूपसंक्रमादाह - प्रभातेति । प्रभातस्य प्र- त्यूपस्य या चंद्रिका चन्द्रगोलिका तन्मध्यपतिता इव तदन्तःपातिन इव स्फटिकस्य चान्द्रोपलस भित्तयः कुड्यानि तासां प्रभासु कान्तिपु | उदये चन्द्रिकाया रक्तत्वात् मध्ये च पाण्डुरत्वात, प्रातस्तु स्फटिकसा- म्यात्प्रभातपदम् । अत्रातिशयो व्यज्यते । तरंगसादृश्यात्सितपताकानां तत्संबन्ध बशादाह - गगनेति । गगनसिन्धुः स्वर्धुनी तस्यारतरंगाः कल्लोलास्तानवलम्वत इत्येवंशीला इव सितपताकांशुकेषज्ज्वलवैजयन्तीप- टेपु | पताकायां श्वेतातिशयो व्यज्यते । सूर्यकान्तेषु संक्रमवशादाह - सूर्येति | पल्लववदाचरन्तीति पल्ल- विता अङ्कुरितास्तादृशा इव सूर्यकान्ता एत्रोपलाः प्रस्तरास्तेषु | इन्द्रनीलसंपर्कयशादाह - राहिति | राहुः सैहिकेयस्तस्य मुखमिव कुहरं बिलं तत्र प्रविष्टारतदन्तर्गता इवेन्द्रनीलमणीनां ये वातायना गवाक्षास्तेपा विवरेषु छिद्रेषु विराजन्ते । अन्वयस्तु प्रागेवोक्तः । - यस्यां चेति । ययामुज्जयिन्यां रजन्यो रात्रय एवंभूताः सत्यो यान्ति । कीदृशाः । न विघटितं न विभिन्नं चक्रवाकानां कोकानां मिथुनं द्वन्द्वं याभिस्ताः । तत्र हेतुमाह - अनुपजातेति । अनुपजातं तिमिरं यस्यां तस्या भावस्तत्त्वं तस्मात् । व्यर्थीकृतेति । व्यर्थांकृता निःप्रयोजनीकृताः सुरतप्रदीपा रतप्रयोजका गृहमणयो यस्यां सा | अनुपजाततिमिरत्वा देवेति भावः । तत्रापि हेतुमाह- कामिनीति । कामि- नीनां योषितां भूषणान्याभरणानि तेषां प्रभाभिः कान्तिभिः । अत्र भूषणप्रभालक्षणेन हेतुनानुपजाततिमि- रत्वम् । तेन चाविघटितचक्रवाक मिथुनत्वं व्यर्थीकृतदीपकत्वं चेति भावः | प्रभाभिः कीदृशा इव | संजा तेति । संजातः समुत्पन्नो यो मदनानलो मदनवह्निः स एव दिग्दाहो यासु तादृशा इव बालातपो नवीन- 1 and a