पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । १०० क्तचामरैर्विद्रुममयैः प्रतिगृहमुच्छ्रितै केराङ्कः सदनयष्टिकेतुभिः प्रकाशितमकरध्वजपूजा, स ततप्रवृत्ताध्ययनध्वनिधौतकल्मषा, स्तिमितमुरजरवगम्भीरगर्जितेषु सलिलसीकरासारैस्तब- करचितदुर्दिनेषु पर्यस्तरँविकिरणरचितसुरचापचारुपु धारागृहेषु मत्तमयूरैर्मण्डलीकृतशि- खण्डैस्ताण्डवव्यस निभिरावध्यमानकेकाकोलाहला, विकचकुवलयकान्तैरुत्कुलकुमुदधवलोद- रैरनिमिषदर्शन रमणीयै राखण्डललोचनैरिव सहस्रसंख्यैरुद्भासिता सरोभिः, अविरलकदलीव- नैकलिताभिरमृत फेनपु पाण्डुराभिर्दिर्शि' दिशि दन्तवलभिकाभिर्धवलीकृता, यौवनमदमत्त- मालवीकुचकलशलुलितसलिलया भगवतो महाकालस्य शिरसि सुरसरितमलोक्योपजाते- न्त्यस्तैः प्रकाशिता प्रकटीकृता मकरध्वजस्य कंदर्पस्य पूजार्चा यस्यां सा | अथ च सदनयष्टिमदनयष्ट्योः साम्यं प्रदर्शयन्नाह – रणितेति | रणिताः रणरणशब्दं कुर्वाणाः सौभाग्यघण्टाः सुभगताहेतोर्न्यस्ता घण्टा वृहत्किङ्किण्यो येषु तैः । आलोहीति | आलोहितं रक्तमंशुकं तस्य पताका वैजयन्त्यो येषु तैः । आवद्धेति । आबद्धानि नद्धानि रक्तचामराणि लोहितवालव्यञ्जनानि येपुतैः । विद्रुमेति । विद्रुममयैः विद्रुमं प्रवालं प्रचुरं येषु तैः प्रतिगृहं प्रतिसझोच्छ्रितैरुचकृतैः मकरो मत्स्यस्तस्याङ्कविहं येषु तैः । एवंप्रकारेणैव वसन्ते कामपूजा जनैः क्रियत इति तदुत्प्रेक्षा | सततमिति | सततं निरन्तरं प्रवृत्तः प्र सृतोऽध्ययनस्य शास्त्रपाठस्य ध्वनि: शब्दस्तेन धौतं क्षालितं कल्मपं पातकं यस्यां सा । पुनः प्रकारान्तरेण तां विशिष्टि – धारेति । धारागृहेषु यन्त्रगृहेषु मत्तमयूरैरुन्मदकलापिभिरावध्यमानोऽन्योन्याश्लिष्टतया क्रियमाणः केका मयूरस्य वाण्यस्तासां कोलाहलः कलकलो यस्याम् | यन्त्र गृहाणां जलधरसादृश्यं विशे- षणमुखेन दर्शयन्नाह -- स्तिमितेति । स्तिमितो निश्चलो यो मुरजस्य मृदङ्गस्य रवः शब्दः स एव गम्भीरं घोरं गर्जितं स्तनितं येषु । सलिलेति । सलिलस्य जलस्य सीकरा वातास्तवारिविप्रुषस्तेषामासारो वेग वान्वर्षो येध्वेवंविधाः स्तबका गुच्छकारतै रचितं प्रारब्धं दुर्दिनं येषु ते तथा तेपु । आसारस्य स्तवका इति समासो वा । पर्यस्तेति । पर्यस्ता निपतिता ये रविकिरणाः सूर्यरश्मयस्तै रचितं विहितं यत्सुरचा- पमिन्द्रधनुस्तेन चारुपु मनोहरेषु | रविकिरणानां द्रव्यान्तरसंयोगेन विविधवर्णत्वोपपत्तेरुत्प्रेक्षा । अथ मयू- रान्चिशिनष्टि ~~मण्डलेति । मण्डलीकृता वर्तुलीकृताः शिखण्डा वर्हाणि यैः । नृत्यप्रारम्भे मयूरकलापो मण्डलाकृतिः स्यादिति सर्वप्रसिद्धिः । अतएव ताण्डवव्यसनिभिर्नृत्यरसिकैः । पुनः कीदृशी | सरोभिस्तटा- कैः उद्भासिता उपशोभिता । अथ च सरोविशेषणानि - विकचेति । विकचानि विकस्वराणि कुवल यान्युत्पलानि तैः कान्तैर्मनोहरैः । उत्फुल्लेति । उत्फुहानि विनिद्राणि यानि कुमुदानि कमलानि तद्वद्धवलं शुभमुदरं मध्यभागो येषां तैः | कैरिव | सहस्रसंख्यैराखण्डलस्येन्द्रस्य लोचनैरिव । अथोभौ वि शेषयन्नाह – अनिमिषेति | अनिमिया मत्स्यास्तेषां दर्शनं विलोकनं तेन रमणीय मनोहरैः । पक्षेऽनिमिपं पक्ष्मपातरहितं यद्दर्शनभीक्षणं तेन रमणीयैः मनोहरैः | गृहवर्णनद्वारा तां पुनर्विशिष्टिदिशीति | C