पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९८ कादम्बरी । समुपस्थिता तापसपरिप- तरमंबोचत ~ 'हे" तात, सकलेयमाचर्यश्रवणकुतूहलॉकलितहदया दाबद्धमण्डला प्रेतीक्षते । व्यपनीतमश्च कृतोऽयं पतत्रिपोतः । तदावेद्यतां यॅदनेन कृतम् | अपरस्मिञ्जन्मनि कोऽयँमभूद्भविष्यति च' इति । एवमुक्तस्तु स मेहामुनिरभ्रतः स्थितं मामवलो- क्य तांश्च सर्वानेकाग्राञ्छ्रवणपरान्मुनीन्बुवा शनैः शनैरब्रवीत् – 'श्रूयतां यदि कौतूहल॑म् - अस्ति सकलत्रिभुवनललामभूता, प्रसवभूमिरिव कृतयुगस्वात्मनिवसोचिता भगवता महाकालाभिधानेन भुवनप्रयसर्गस्थितिसंहारकॉरिणा प्रमथनाथेने वापरेव पृथिवी समुत्पादिता द्वितीयपृथिवीशङ्कया जलनिधिरेव रसातलगंभीरेण परिखावैलयेन परिवृता, पशुपति निवास- प्रीत्या गैंगनपरिसरोल्लेखिशिखरमालेन कैलासगिरिणेव सुधासितेन प्राकारमण्डलेन पैरि- आश्चर्येति । आश्चर्यस्यद्भुतवस्तुनो यच्छवणमाकर्णनं तत्र यत्कुतूहलं चित्तवृत्तिविशेपस्तेनाकलितं व्याप्तं हृदयं चेतो यस्याः सा । परिपद्विशेषणम् | आवद्धेति | आवद्धमारचितं मण्डलं यया सा | प्रतीक्ष- त इति । भवन्त मिति शेषः । भवद्विलम्वेन विलम्व इत्यर्थः । कदाचिच्छुककृतोऽपि स्यादित्यत आह --व्यप- नीतेति । अयं पतत्रिपोतः शुकशिशुर्व्यपनीतो दूरीकृतः श्रमो ग्लानिर्यस्यैवंभूतः कृतो विहितः । चेति पू- र्वोक्तसभुच्चये । तदिति हेर्थे | आवेद्यतामिति । यदनेन शुक्रेन कृतं विहितं तदावेद्यतां निवेद्यताम् । अस्माकमिति शेषः । अपरस्मिन्निति । एतद्भवापेक्षयापरजन्मनि भूते भविष्यति च कोऽयमभूकोऽय- मग्रे भविष्यति चेति । एवमिति । एवं पूर्वोक्त प्रकारेणोक्तः प्रश्नविपयीकृतः | तु पुनरर्थे । स महामुनिः जावालिमुनिरप्रतः पुरतः स्थितमासीनं मामवलोक्य निरीक्ष्य तान्सर्वान्समग्रानेका ग्रानेकतानान् । ध्रुव- जेति । श्रवणमाकर्णनं तस्मिन्परान्मुनीस्तपस्विनो बुवा झालाच अतिवृद्धत्वात्क्षीणत्वाच शनैः शनैर्म- न्दस्वरेणाव्रवीदुवाच । क्रिमुवाचेयाह – श्रूयतामिति । यदि चेत्कौतूहलमाश्चर्यं तर्हि श्रूयतामाकर्ण्यताम् । अनेनात्यादरः सूचितः । अस्तीति । उजयिनी नाम नाम्नी नगर्यस्तीति दूरेणान्वयः । अग्रे प्रथमान्तानि सर्वांण्यपि नगरीविशेष- णानि । अन्येषां त्वन्यविभक्तिकानीति वोध्यम् । सकलेति । सकलं समग्र यन्त्रिभुवनं त्रिविष्टं तस्य ललामभूता तिलकभूता । प्रसवेति । कृतयुगस्य सत्ययुगस्य प्रसवभूमि रिव जन्मभूरिव । आत्मेति । भगव- तेश्वरेणात्मनः स्वस्य यो निवासोऽवस्थानं तत्रोचिता योग्यापरेवंत भिन्नेव पृथिवी वसुधा समुत्पादिता कृता । अथेश्वरं विशेषयनाह—महेति । महाकाल इत्यभिधानं नाम यस्य स तथा तेन । भुवनेति । भुवनत्रयस्य विष्टपत्रयस्य यः सर्गः सर्जनम्, स्थितिरवस्थानम्, संहारो विनाशः एतेषां कारिणा करणशीलेन | प्रमथेति । प्रमथा गणास्तेषां नाथेन स्वामिना । द्वितीयेति । द्वितीयंततिरिक्ता यां पृथिवी तस्याः शङ्का रेका तया जलनिधिनेव समुद्रेणेव परिखावलयेन खातिका मण्डलेन परित्रता परिवेटित परिखावलयं विशि- 1 । नष्टि - सरसेति | रसातलं पुढच्या अभोभागं यावदर्भारेगालव्धमध्येन | पुनर्विशेषतो नगरीं विशिनटि- प्राकारेति । प्राकारो वप्रस्तस्य मण्डलेन वलयेन परित परिवेष्टिता । पशुपतिरिति । पशुपतिरीश्वरस्त-