पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । विगलितसकलोद्यरागं रजनिकरबिम्बमम्बरापगावगाहधौत सिन्दूर मैरावतकुम्भस्थल मिक तत्क्षणमलक्ष्यत । शनैःशनैश्च दूरोदिते भगवति हिमततिस्रुति सुधाधूलिपटलेनेव धवलीकृते चन्द्रातपेन जगति अवश्यायजलबिन्दुमन्दगतिपु विघटमानकुमुदवैनकपायपरिमलेषु समुपो- ढनिद्राभरालसतारकैरन्योन्यप्रथितपक्ष्मपुढैरारब्धरोमन्थमन्थरमुखैः सुखासीनैराश्रममृगैर- भिनन्दितोगमनेषु प्रवत्सु निशामुख समीरणेष्वर्धयाममात्रावखण्डितायां विभावय हारीतः कृताहारं मामादाय सर्वैस्तैर्महामुनिभिरुपसृत्य चन्द्रातपोद्भासिनि तपोवनैकदेशे वेत्रासनोप- विष्टमैनंतिदूरवर्तिना जालपादनाम्ना शिष्येण दर्भपवित्रधवित्रपाणिना मन्दमुपवीज्यमानं पि- गतैः प्राप्तैश्चन्द्रपादैः शशिकिरणैर्हसैरिव मरालैरिव कुमुदसरांसि कैरवोपलक्षिततटाकान्यवगाह्यन्तालो- ड्यन्त । अतः वेतत्वसाम्याद्धंसचन्द्रपादयोरुपमानोपमेयभावः । पुनरवस्थान्तरं वर्णयन्नाह -- चिगलीति | विगलितो विलयं प्राप्तो यः सकलः समग्र उदयसंवन्ध्युगमनक्षणजन्मा रागो रक्तिमा यस्मिन्नेवंभूतं रज- निकरबिम्बं चन्द्रमण्डलं तत्क्षणमित्र तत्काल इवालक्ष्यत जनैरैक्ष्यत । किमिव । अम्बरेति | अम्वरस्य व्योम्नो यापगा नदी तस्या अवगाह आलोडनं तेन धोतं क्षालितं सिन्दूरं नागजं यस्यैवंविधं यदैवतस्य हरित मल्लस्य कुम्भस्थलं तदिव । अतिवर्तुलत्वसाम्याञ्चन्द्रबिम्वस्य कुम्भस्थलोपमानम् । अथ मुनिवृत्तं नि- रूपयन्नाह – शनैरिति । हारीतो मुनिः कृताहारं विहितभोजनं मां वैशम्पायनमादाय गृहीत्वा पितरं जावालिमुनिमित्यवोचदित्यन्वयः । कस्मिन्सति । शनैः शनैः स्वल्पप्रयत्लेन दूरोदितें दूरं गते भगवति चन्द्रे । हिमेति । हिमं प्रालेयं तस्य ततिथी तस्याः स्रुति स्राविणि । चन्द्रस्य विशेषणम् | सुधेति । श्वेतत्व- साम्यात्सुधैव धूलिपटलं पांसुसमूहस्तेनैव चन्द्रातपेन शशिन आलोकेन जगति लोके धवलीकृते सति शुश्रीकृते सति । पुनः केषु सत्सु | निशामुखसमीरणेषु प्रदोषकालीनवायुषु प्रवहत्सु वहमानेषु सत्सु । अथ वायूनां विशेषणानि –– अवश्येति । अवश्यायो हिमं तस्य जलबिन्दवः पानीय विप्रुषस्तैर्मन्दा मन्थरा गतिर्ग- मनं येषां ते । विघटेति । विघटमानानि विकास प्राप्यमाणानि यानि कुमुदवनानि तेषां कषायस्तुवरो गन्धो येषु ते । अभिनन्दितमिति । अभिनन्दितं लाघितमागमनं येषां ते तथा । कैः । आश्रममृगैर्मु- निस्थानस्थहरिणैः । अथ च तेषां विशेषणानि -- समुपोढेति । समुपोढा सम्यक्प्रकारेणोपोढा या निद्रा प्रमीला तस्या अरः संभारस्तेनालसा मन्थरा तारका कनीनिका येषां ते तथा तैः । अन्योन्येति । अन्योन्यं परस्परं प्रथितानि मिलितानि पक्ष्म नेत्ररोम तेषां पुढानि येषां ते तथा तैः । आरब्ध इति । आरब्धो यो रोमन्थश्चर्वणं तेन मन्थराण्यलसानि मुखानि येषां ते तथा तैः । सुखेति । सुखेन यदृच्छयासी नै - रुपविष्टैः | अर्धेति | त्रियामाशयेनार्धयाममात्रमर्त्र प्रहरमात्रमवखण्डितं खण्डनां प्राप्तं यस्याः सा तथा । तस्यामर्धप्रहरन्यूनायामित्यर्थः । एवंविधायां विभावर्या रजन्यां सर्वेस्तैर्महामुनिभिर्महातपस्विभिरुपसृत्या- गत्य | कस्मिन् । चन्द्रेति । चन्द्रातपेन निशापतिप्रकाशेनोद्भासत उत्प्रावल्येन शोभत इत्येवंशीलः स तथा तस्मिन् । तप इति । तपोवनस्य मुनिस्थानस्यैकदेशोऽन्यतरप्रदेशस्तस्मिन्नविकरणीभूते । अथ जावालि- fadar | aauवासनम | अतीति । अनतिदरवर्ति ।