पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । स्तिमिरतमालावृक्षलेखं सप्तर्पिमण्डलाध्युपित मरुंधतीसंचरणपूर्तमुपहितापाढमालक्ष्यमाणभू- लामेकान्तस्थितचारुतारकामृगममरलोकाश्रममिव गैगनतलममृतदीधितिरध्यतिष्ठत् । चन्द्रा- भरणभृतस्तारकाकपालशकलालंकृतादम्बरतलात्र्यम्बकोत्तमाङ्गादिव गङ्गा सागरानापूरयन्ती हंसधवला धरण्यामपतज्योत्स्ना | हिमकरसरसि विकचपुण्डरीकसिते चन्द्रिकाजलपानलो- भादवतीर्णो निश्चलमूर्तिरमृतपकलग्न ईंवादृश्यत हरिणः | तिमिरजलघरसमयापगमानन्तर- मभिनवसित सिन्दुबारकुसुमपाण्डुरैरर्णवागतैरवगाह्यन्त हंसैरिव कुमुदसरांसि चन्द्रपादैः । लोकः समुदायस्तस्याश्रमो मुनिस्थानं तदिव गगनतलमम्वरतलमध्यतिष्ठदधितस्थौ । कीदृसूर्य: । जाते- ति । जातं समुत्पन्नं वैराग्यं विरक्तता यस्मिन्स तथा तम् । पक्षे विशिष्टो रागस्तस्य भावस्तत्त्वम् । धौतेति । धौतं क्षालितं दुकूलवल्कलवस्त्रमेव धवलं शुभ्रमम्बरं यस्मिन् । पक्षे दुकूलवल्कलवत् धवलं शुभ्रमम्बरमाकाशं यस्मिन् । सतारेति । तारः शक्तिविशेषः प्रणवो ब्रह्म च । तदुक्तमन्यत्र 'इदं तारत्रयं प्रोक्तमगम्यागम नादृते' | एतद्वृत्तौ 'तारत्रयं प्रणवशतत्रयम्' इसाह विज्ञानेश्वरः । तया सहवर्तमानं यदन्तः पुरमिति पुरस् शरीरस्यान्तर्मभ्यं कुण्डलिनी नाडीविशेषः । 'क्वचिदमाद्यन्तस्य परत्वम्' इति पुरस्य परनिपातः | तस्याः पर्यन्तः सहस्रारं कमलं तत्र योगसामर्थ्यात्स्थितं लैङ्गिकं तनुर्यस्य स तथा । पक्षे तारा अश्विन्यादयस्ताभिः सहवर्तमानं यदन्तःपुरमवरोधस्तस्य पर्यन्तः संनिधिस्तत्र स्थिता तनुः शरीरं यस्य स तथा । अथाश्रमसाम्येन गगनतलं विशेषयन्नाह-तिमिरेति । श्यामत्वसाम्यात्तिमिरवच्छ्यामा ये तमालवृक्षास्तेषां लेखा पस्मिन् । पक्षे तिमिराण्येव तमालवृक्षा इति विग्रहः शेषं पूर्ववत् | सप्तति । सप्तर्पिसदृशा ये ऋषयो नारदाद्यास्तेषां मण्डलं समूहः । ‘मण्डलं श्वासमूहयोः' इति धरणिः । तेनाध्युतिमाधितम् | पक्षे सप्तर्पयः सप्ततारकाः । शेपं प्राग्वत् | अरुंधतीति | अरुंधती वसिष्ठपनी तस्याः संचरणं परिभ्रमणं तेन पूतं पवित्रम् । पक्षेऽरुंधती ताराविशेषः । शेषं प्राग्वत् | उपहितेति । उपहितः संनिहित आपाढः पालाशदण्डो यस्मिन् | 'पालाशो दण्ड आपाढः' इत्यभिधानचिन्तामणिः | पक्ष आपाढा पूर्वापाढा नक्षत्रम् | आलक्ष्येति । आसमन्तालक्ष्य- माणानि विलोक्यमानानि मूलानि वसुधान्तर्गतवृक्षप्रदेश मन्मूलं मूलनक्षत्रम् | शेषं प्राग्वत् । एकान्तेति । एकान्ते विजने स्थिताश्चारको मनोहराकृतयस्तारकामृगाः श्वेतमृगा यस्मिन् । पक्षे तार- कारूपं मृगो नक्षत्रम् । तस्यामेव विभावय चन्द्रे जातवैराग्योपमानभम्बरमण्डले चाश्रमरूपके मुक्त्वा ज्यो त्स्नायां गङ्गारूपकोपयोगिगगनतले त्र्यम्बकोत्तमानोपमानमाह - चन्द्रेति । चन्द्र एवाभरणं विभर्तीति च न्द्राभरणभृत्तस्मात् | तारकेति । तारका एव कपालशकलानि कर्पूरखण्डानि तैरलंकृतं भूषितं यस्मात् । अम्बरतला दिलवध पञ्चमी । त्र्यम्बकोत्तमानादिवेश्वरमौलेरिव गङ्गा जाहवी | सागरानिति । अगस्तिगण्डू- पेण गुप्कान् सागरान् समुद्रानापूरयन्ती परिपूर्णांकुर्वती | चन्द्रोदयेन शागराणां पूरणं प्रसिद्धम् | हंसवडवला शुभ्रा ज्योत्स्ना चन्द्रिका वरण्यां पृथिव्यामपतत्पपातेत्यर्थः । अथ च चन्द्रमृगोऽप्येतादृशोऽभूदित्याह–हिम- करेति । हिमकरश्रन्द्रः स एव सरस्तस्मिन् | तदेव विशिनटि — विकचेति । विकचानि विकखराणि यानि पुण्डरीकाणि तद्वत्सित शुभ्रे । अन्यदपि सरो विकचपुण्डरीक सितं भवति अतस्तदुपमानम् । चन्द्रिके