पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । माना संध्या तपोधनैरदृश्यत । अचिरप्रोषित सवितरि शोकविधुरा कमलमुकुलकमण्डलु- धारिणी हंससित दुकूलपरिधाना मृणालघवलयज्ञोपवीतिनी मधुकरमण्डलाक्षवलय मुद्वहन्ती कमलिनी दिनैपतिसमागमत्रतमिवाचरत | अपरसागराम्भसि पतिते दिवसकरे वेगोत्थितम- म्भःसीकरनिकरमिथ तारागणमम्वरमधारयत् । अचिराच सिद्ध कन्यकाविक्षिप्त संध्याचनकु- सुमशबलमिव तारकितं वियदराजत । क्षणेन चोन्मुखेन मुनिजनेनोर्ध्वविप्रकीर्णैः प्रणामाच- लिसलिलै : क्षील्यमानइवागलदखिल: संध्यारागः । ९५ क्षयमुपागतायां संध्यायां तद्विनाशदुःखिता कृष्णाजिनमिव विभावरी तिमिरोद्गममभिनव- मबहत् । अपहाय मुनिहँुदयानि सर्वमन्यदन्धकारतां तिमिरमनयत् । क्रमेण च रविरस्तं गत इत्युदन्तमुपलभ्य जीतवैराग्यो घौतदुकूलवल्कलघवलाम्बरः सतैरान्तःपुरपर्यन्तस्थितंतनु- मुनिभिः संध्यादृश्यतालोक्यत | गौरपि कपिलवालोहिततारका रक्तकनीनिका | संध्या तु लोहिततारका र कनक्षत्रा तत्कालीनोद्गतनक्षत्राणां रक्तत्वात् । अतः संध्याधेन्वोः सादृश्यादुपमानोपमेयभावः । कमलि- नीसूर्ययोर्नायिकानायकत्वेन तौ वर्णयन्नाह -- अचिरेति । अचिरप्रोषिते तत्कालीन प्रोपिते गते सवितरि श्रीसूर्ये शोकेन विरहेण विधुरा विह्वला कमलिनी दिनपतिसमागमार्थ स्वकीयनायकस्सागमन हेतोतं नियम विशेषमाचरदिवाकरोदिव | कमलेति । संकुचितमुखसाम्यात्कमलमुकुलान्येव कमण्डलूनि तान्येव दधातीत्येवंशीला सा तथा । हंसेति । श्वेतसाम्यासा एव सितदुकूलानि परिधानमघशुकं यस्याः सा तथा । मृणालेति । श्रुततन्तुसारूप्यान्मृणालान्येव ववलं शुभं यज्ञोपवीतं यज्ञसूत्रं यस्याः सा तथा । मधुकरेति । नीलतीक्ष्णमुखसाम्यान्मधुकराणां भ्रमराणां यन्मण्डलं तदेवाक्षवलयं रुद्राक्षजपमालिका तदुद्वहन्ती धारयन्ती | अपरामस्थां वर्णना-अपरेति । अपरसागराम्भसि पश्चिमसमुद्रपानी ये पतिते दिवसकरे सूर्ये येगेन रमसोथितं प्रादुर्भूतमम्भःसीकरनिकर पानीपसमूहं तारागणमिव नक्षत्रवृन्दमिवा- । अतिश्वेतरूपत्वसाम्यात्ताराजलबिन्द्रोरुपमानोपमेयभावः । अचिराञ्चे- म्वरमाकाशमवारयधार ति । अचिरात् स्वल्पकालेन सिद्धा विद्यारिद्धास्तेषां कन्यकाः पुत्र्यस्ता भिर्विक्षिप्तानि विकीर्णानि यानि संध्यार्चनकुमुमानि सायंकालीनपूजार्थमानीतानि पुष्पाणि तैः शवलमिव कर्वुरमिव तारकितम् | 'तारकादिभ्य इतच्’ । संजाततारकोदयं वियदाकाशमराजतागोभत । अतीतसंव्यावस्थां प्रकटयना - क्षणेनेति । क्षणेन सपद्येव । च समुच्चये | उन्मुखेनोर्ध्वमुखेन मुनिजनेन तापराज ने नोचैविप्रकरु विक्षिप्तः प्रणामाञ्जलि - सलिलैर्नमस्कृतिसमयाञ्जलिभानीयः झाल्यमान इव प्रक्षाल्यमानोऽखिलः समग्रोऽपि संध्यारागोऽगलत्तत्स्थाना- प्रच्युतः । क्षयमिति | संध्यायां क्षयमुपगतायां विनाशं प्राप्तायाम् | तदिति । तस्याः स्वसांनिध्यात्सखी- रूपाया: संध्याया विनाशो व्वंसस्तेन दुःखिता कटं प्राप्ता विभावरी रजन्यभिनवं प्रत्यग्रं तिमिरोद्गमं ध्वान्तो. दयं कृष्णाजिनमिवासितचर्मवदवहत् | नीलसाम्यात्तिमिरोद्गमस्य कृष्णाजिनसाधर्म्यम् | तिमिरोद्गमस्य कृत्यं