पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । दुपजातकुंतूहलो भगवाञ्जाबालिरीपदावलितकंधरः पुण्यजलै प्रक्षालयन्निव मामतिप्रज्ञा- न्तया दृष्ट्या दृष्ट्वा सुचिरंमुपजातप्रत्यभिज्ञान इव पुनःपुनर्विलोक्य 'स्वस्यैवाविनयस्य फलमने- नानुभूयते' इत्यवोचत् । स हि भगवान्कालत्रयदर्शी तपःप्रभावादिव्येन चक्षुषा सर्वमेव करतलगतमिव जगदेवलोकयति । वेर्त्तिं जन्मान्तराण्यतीतानि । कथयत्यागामिनमध्यर्थम् । ईक्षणगोचरगतानां च प्राणिनामायुषः संख्यामावेदयति । सर्वैव सो तापसपरिषच्छ्रुत्वा विदिततत्प्रभावा 'कीदृशोऽनेनाविनयः कृतः, किमर्थं वा कृतः, छ वा कृतः, जन्मान्तरे वा कोऽयमासीत्' इति कौतूहलिन्यभवत् । उपनाथितवती च तं भगवन्तम् 'आवेदय, प्रसीद भगवन् कीदृशस्या विनयस्य फलमनेननुभूयते | कश्चायमासीज्जन्मान्तरे । विहगजातो वा कथमस्य संभवः । किमभिधानो वायम् | अपनयतु नः कुतूहलम् | आश्चर्याणां हि स- वैपां भगवान्प्रभवः' । 19 । ९२ ति । इत्येवमादिकमभ्मत्संवमिति सद्विषयकमालापं प्रश्नोत्तरमाकर्ण्य वा किंचिदिति । किंचिदी- पदुपजातमुत्पन्नं कुतृहलमाश्चर्य यस्य स तथा भगवान्माहात्म्यवान् जावालिः जाबालिनामा मुनिः । ईपदिति । ईपत्किंचिदावलिता नमिता कंधरा ग्रीवा यस्य स तथा । इदं तु सावधानलक्षणम् | पुण्येति । पुण्यजलैः पवित्र- पानीयैः प्रक्षालयन्निव धावयन्निव मामतिप्रशान्तयातिप्रसन्नया दृष्ट्या दृशा सुचिरं चिरकालं दृष्ट्वा विलोक्य । उपे ति | उपजातं समुत्पन्नं प्रत्यभिज्ञानम् 'सोऽयं देवदत्तः' इत्याकारकं ज्ञानं यस्य स तथा तदिव पुनःपुनरं- वारं विलोक्य निरीक्ष्य स्वस्यैवात्मन एवाविनयस्या शिष्टाचारस्य फलं भोगोऽनेन शुकशिशुनानुभूयते साक्षात्कयत इति तानवोचदत्रवीत् । कथं मुनिजनातील्याशयेनाह — सहीति । यतः | हि निश्रितम् । स भगवान् । का लेति । कालत्रयस्यातीतानागतवर्तमानलक्षणस्य दश पश्यकः । तप इति । तपःप्रभावाद्दिव्येन ज्ञानात्मकेन चक्षुषा दृष्ट्या सर्वमेव समग्रमेव जगत्करर्तलगत मिव हस्तन्यस्तमिवावलोकयति पश्यति । वेत्तीति । अतीतानि गतानि जन्मान्तराणि भवान्तराणि वेत्ति जानाति । कथयतीति । आगामिनं भाविनमर्थमपि कथयति ब्रवी- ति । इक्षणेति । ईक्षणगोचरगतानां नयनपथप्राप्तानां प्राणिनां सत्त्वानामायुपो जीवितव्यस्य संख्यां परिमाण- मावेदयति निवेदयति । सर्वेवेति । सर्वव समग्रव सा तापस परिषन्मुनिसभा शुलाकर्ण्य | पूर्वोक्त मिति शेषः । विदितेति । विदितो ज्ञातस्तस्य जावालिमुनेः प्रभावो माहात्म्यं यया सा तथेति कौतूहलिनी कौतुकवत्यभ. वदियन्वयः । इतिशब्दवाच्यमाह - कीदृश इति । कीदृशः कीदृग विनयोऽपराध विशेषोऽनेन शुकशिशुना कृतो विहितः । किमर्थं किप्रयोजनं वा कृतः । क्व वा कस्मिन्प्रदेशे कृतः । जन्मान्तरे गवान्तेऽयं क आ- सीदभवत् । सर्वत्र वाशब्दो विकल्पार्थः । उपेयेति । उपनातिवती । 'नाथू याचने' इत्यस्य धानो रूपम् | याचितवतीयर्थः । च पूर्वोक्तसमुच्चये । तं भगवन्तं जावालिमुनिम् । किं याचितवतीत्याशयेनाह - आवेदयेति । हे भगवन्, आवेदय कथय । प्रसीद प्रसन्नो भव । पूर्वोक्ताभिप्रायस्थप्रश्नाननुवदन्नाह -की- -- •1Ttri a vrat