पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । एवं चिन्तयन्तमेव मां तानव्र- तैस्यामेवाशोकतरोरधश्छायायामेकदेशे स्थापयित्वा हारीतः पा- दायुपगृह्य कृताभिवादनः पितुरनतिसमीपवर्तिनि कुशासने समुपाविशत् । आलोक्य तु मैं सर्व एव मुनयः 'कुत्तोऽयमासादितः शुकशिशुः' इति तमासीनमपृच्छन् । असौ वीत् 'अयं मया स्नातुमितो गतेन कमलिनीसॅरस्तीरतरुनी डॅनिपतितः शुकशिशुरातपज- नितक्कान्तिरुत्तप्तपांसुपटलमध्यगतो दूरनिर्पत नविह्वलत नुरल्पावशेषायुरासादि तैस्तपस्विदुरा- रोहतया च तस्य वनस्पतेर्न शक्यते स्वनीडमारोपयितु मिति जातदयेनानीतः । तद्यावदयम- प्ररूढ पक्ष तिरक्षमो ऽन्तरिक्षमुत्पतितुं तावदत्रैव कस्मिंश्चिदाश्रमतरुकोटरे मुनिकुमारकैरस्मा- भिचोपनीतेन नीवारकणनिकरेण फैलरसेन च संवर्ण्यमानो धारयतु जीवितम् | अनाथप- रिपालनं हि धर्मोऽस्मद्विधानाम् | उद्भिन्नपक्षतिस्तु गगनतल संचरणसमर्थो यास्यति यत्रोमै रोचिध्यते । इहैव वोपजातपॅरिचयः स्थास्यति' इत्येवमादिकम स्मैत्संबद्धालापमाकर्ण्य किंचि- अथ हारीतः किं कृतवानिलाह -- एवमिति । एवं पूर्वोक्तप्रकारेण चिन्तयन्तं विचारयन्तं मां तस्या- मेवाशोकतरोरधश्छायायागेकदेश एकस्मिन्प्रदेशे स्थापयित्वा संस्थाप्य हारीतः हारीतनामा मुनिः । पादाविति । पादौ चरणायुपगृह्य पादयोः पतिला | कृतेति । कृतं विहितमभिवादनं येनैवंभूतः पितु- जैनकरयानतिसमीपवर्तिनि नातिनिकटवर्तिनि कुशासने दर्भविटरे समुपाविशदुपविष्टवान् । आलोक्येति । आलोक्य निरीक्ष्य | तु पुनरर्थे । मां सर्व एव समग्रा एव मुनयो ऋपयः कुतः कस्मात्प्रदेशादयं शुकशिशु- रासादितः प्राप्त इति तमासीनमुपविष्टं हारीतं मुनिमपृच्छन्नप्राक्षुः । असौ हारीतः | तु पुनरर्थे । तान्मु नीनब्रवीदुवाचेत्यर्थः । किमुवाचेत्याह-अयमिति । अयं शुकशिशुमैया स्नातुं स्नानार्थमितोऽस्मिन्प्रदे- शात् गतेन प्राप्तेन | कमलीति | कमलिनीसरः पद्मसरस्तस्य तीरतरुः प्रतीर वृक्षस्तस्मिन्यो नीडः कुलायस्त- स्मान्निपतितः स्रस्तः । आतपेति । आतपेनालोकेन जनितोदिता क्लान्तिः श्रमाधिक्यं यस्य स तथा । उत्तप्तेति । उत्तप्त उष्णीभूतो यः पांसुपटलो धूलीसमूहस्तस्य मध्यगतोऽभ्यन्तरवर्ती । दूरेति । दूराद्द- विष्ठाद्यन्निपतनमधःसंयोगफलिका क्रिया तेन विह्वलं व्याकुलं तनुर्देहो यस्य स तथा । अल्पेति । अल्पं स्वल्पमवशेषमायुर्जीवितं यस्यैवंभूत आसादितो लव्धः । तपस्वीति । तपस्विभिर्मुनिभिर्दुरा रोहतया दुःखेनारोढुं शक्यतया तस्य वनस्पतेः शाल्मली वृक्षस्य स्वनीडं स्वकुलायमारोपयितुं स्थापयितुं न शक्यते न समर्थांभूयत इति हेतोः । जातदयेनेति । जातोत्पन्ना दया करुणा यस्यैवंभूतेनानीतोऽञानीतः । मयेति पूर्वोक्त मेवेति न पुनरुच्यते । तद्यावदिति । तदिति हेत्वर्थे । यावत्कालम् । अयमिति पूर्वोक्तः । अमरूद्वेति । अप्ररूडाऽनुत्पन्ना पक्षतिः पक्षमूलं यस्य सः । अक्षमेति । अन्तरिक्षमाकाशमुत्पतितु- मक्ष मोऽसमर्थः । तावदिति । तावत्कालम् । अत्रैवेति । अत्रैवकारोऽन्ययोगव्यवच्छेदार्थः | कस्मिंश्चि दिति । कस्मिंश्चित अनिर्दिष्टनामन्याश्रमतरुकोटरे मुनिवसतिवृक्षनिष्कुहे मुनिकुमारकैस्तापसशिशुभिर स्माभिश्रोपनीतन आनीतेन । नीवारेति | नीवारो वनव्रीहिस्तस्य कणनिकरेण सस्यसमूहेन फलरसेन Tit * Tra जीवितं । ति ।