पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । ९३ इत्येवमुपयाच्यमानस्तपोधनपरिषदा स महामुनिः प्रेत्यवदत् - ' अतिमह दिदमाश्चर्यमा ख्यातव्यम् । अल्पशेषमहः । प्रत्यासीदति च नः स्नानसमयः । भवतामध्यतिक्रामति देवार्च - नविधिवेला तदुत्तिष्ठन्तु भवन्तः । सर्व ऐवाचरन्तु यथोचितं दिवसव्यापारम् । अपराह्न - समये भवतां पुनः कृतमूलफलाशनानां विस्रष्धोपविष्टानामादितः प्रभृति सर्वभावेदयि- Fयामि योऽयम्, यँच्चानेन कृतमपरस्मि जन्मनि, इह च लोके यथास्य संभूतिः । अयं च तावद्पगतक्लमः क्रियतामाहारेण | नियतमयमध्यात्मनो जन्मान्तरोदन्तं स्वप्नोपलव्धमिव मयि कथयति सर्वमशेषतः स्मरिष्यति' इत्यभिदधदेवोत्थाग सह मुनिभिः खानादिकमुचि- तदिवसव्यापारमकरोत् । aj अनेन च समयेन परिणतो दिवस: । स्नानोत्थितेन मुनिजनेनार्घविधिमुपपादयता यः क्षितितले दत्तस्तम्बरसलगतः साक्षादिव रक्तचन्दनाङ्गरागं रविरुदवहन् । ऊर्ध्वमुखैरर्क- बिम्ब विनिहितदृष्टिभिरुँमा पैस्तपोधनैरिव परिपीय मानतेजःप्रसरो विरैलातपस्त निमानमभ- । इत्येवमिति । इत्येवं अनेन प्रकारेण तपोधनपरिषदा मुनिसभयोपयाच्यमानः प्रार्थ्यमानः स महा- मुनिः प्रत्यवदत्प्रयवोचत् । अतीति | इदमाश्चर्यमतिमहदतिमहीयानाख्यातव्यं कथनीयम् । मयेति शेषः । अल्पेति । अहर्दिन मल्पशेषमपावशिष्टम् । प्रत्येति । नोऽस्माकं स्नानसमय आम्लवकाय: प्रत्यासीदति वि लम्बितो भवति । भवतामिति । भवतामपि युष्माकमपि देवार्चन विधिवेला देवपूजाक्षणोऽतिका मत्युलद्धि- ता भवति । तदिति हेत्वर्थे । उत्तिष्ठन्तूत्थानं कुर्वन्तु भवन्तो यूयम् । सर्व एवेति । यथोचितं यथायोग्यं दिवसव्यापारं दिनकृत्यमाचरन्तु समाचरन्तु | अपराहेति । अपराह्नसमये द्विप्रहरानन्तरसमये भवतां युष्माकम् । पुनरिति । पुनः द्वितीयवारं कृतं विहितं मूलफलयोरशनं भक्षणं यैस्ते तथा तेषाम् । विधेति । विव्धं सावधानं यथा स्यात्तथोपविष्टानां स्थितानाम् | आदित इति । आदितः प्रार- मतः प्रभृति सर्व वृत्तान्तमावेदयिष्यामि निवेदयिष्यामि । योऽयमिति । यथायं पूर्वजन्मन्यासीत् । य चानेनापरस्मिजन्मनि परभवे कृतम् । इह चेति । इह लोके यथा येन प्रकारेणास्य संभृतिरुत्पत्तिः । अयं चेति । तावदादाव्यं शुक आहारेणाशनेनापगतक्लमो व्यपगतपरिश्रमः क्रियतां विधीयताम् । नि- तेति । नियतं निश्चितं मयि कथयत्ययं शुकः अपि आत्मनः स्वकीयस्य जन्मान्तरोदन्तं परगववृत्ता- न्तं खप्नोपलव्धमिव स्वप्नदृष्टवत्सर्वं समग्रमशेषत आमूलचूलतः स्मरिष्यति स्मरणविषयी करिष्यति । इतीति । इति पूर्वोक्तमभिदधदेव कथयन्नेवोत्थायोत्थानं कृत्वा । सहेति | राह समं मुनिभिस्तपस्विभिरुचितं योग्यं दिवसव्यापारं स्नानादिकमकरोन्निर्ममे । अनेन चेति । अनेन समयेन मध्याहसमय कर्तव्यकर्मणा परिणतः परिपाकं गतो दिवसः । परिणते दिवसे सूर्यस्य रक्तत्वात्तद्वर्णनामाह्– स्नानोत्थितेनेति । अम्बरतलगतो रविस्तं रक्तचन्दनाङ्गरागं साक्षादिव प्रत्यक्ष- रूपेणै। मानोनिध