पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । कृतावस्थितिना भगवता परिभूतकलिकाल विलसितेन धर्मेण न स्मर्यते कृतयुगस्य । घर लमनेनाधिष्ठितमालोक्य न बहुति नूनमिदानीं सप्तर्पिमण्डल निवासाभिमानमम्बरत अहो महासत्त्वेयं जरा यास्य प्रलय रैविरश्मि निकरदुर्निरीक्ष्ये रजनिकर किरैणपोण्डुशि जटाभारे फेनपुञ्जधवला गङ्गेव पशुपतेः क्षीराहुतिरिव शिखाकलापे विभावसोनिपत भीता बहलाज्यघूमपटलमलिनीकृताश्रमस्य भगवतः प्रभवाद्धीतमिव रविकिरणजो दूरतः परिहरति तपोवनम् । एते च पवनलोलपुंजीकृतशिखाकलापा रचिताञ्जलय मन्त्रपूतानि हवींषि गृह्णन्त्येतत्प्रीत्याशुशुक्षणयः | तरलित दुकूलवल्कलोऽयं चाश्रमलताई सुरभिपरिमलो मन्दमन्दचारी सशक इवास्य समीपमुपसर्पति गन्धवाहः । प्रायो महा नामपि दुरभिभवानि भवन्ति तेजसि । सर्वतेजस्विनामयं चामणीः । द्विसूर्यमिव ८८ तथा तेन भगवता माहात्म्यवता । परीति | परिभूतं न्यकृतं कलिकालस्य विलसितं चेष्टितं येनै धर्मेण न स्मर्यते । कृतयुगस्येति कर्मणि षष्ठी 'मातुः स्मरति' इतिवत् | धरणीति । नूनं मनेन मुनिना धरणितलम् अधिष्ठितमाश्रितमालोक्य निरीक्ष्याम्वरतलं व्योमतलमिदानीं सांप्रतं मण्डलनिवासाभिमानमिति सप्तर्षाणां कश्यपप्रभुतीनां यन्मण्डलं समूहस्तस्य यो निवासोऽवस्थानं ऽभिमानोऽहंकारस्तं न वहति न धत्ते । अत्र बहूनां ऋषीणां सत्त्वात् । अहो इत्याश्चर्ये । म महाधैर्ययं जरा विवसा यास्य मुनेर्जटामारे सटासमूहोपरि निपतन्ती पतनं कुर्वती न भीता न अत्रार्थ उपमानद्वयं प्रदर्शयति - पशुपति । पशुपतरीश्वरस्य जटाभारे सटासमूहे गङ्गेव स्वर्णदीव रेति । विभावसोर्वह्नेः शिखाकलापे ज्वालासमूहे क्षीराहुतिरिव क्षीरस्य दुग्धस्साहुतिर्वहा प्रक्षेप इवे गङ्गां विशिनष्टि – फेनेति । फेनस्य डिण्डीरस्य य पुजः समूहस्तेन धवलोज्ज्वला | इयमपि धवला जटां विशिष्टि–प्रलयेति । प्रलयः कल्पान्तस्तस्मिन्यो रविः सूर्यस्तस्य यो रश्मिनिकरः किरणसम्म दुर्निरीक्ष्ये विलोकयितुमशक्ये । रजनीति | रजनिकरश्चन्द्रस्तस्य किरणा मयूखास्तद्वत्पाण्डूनि शिरोरुहाणि केशा यस्मिन् । वहलेति । वलं निविडं यदाज्यं सर्पिस्तस्य धूमपटलं तेन मलि श्यामतां प्रापित आश्रमो यस्यैवंविधस्य भगवतो मुनेः प्रभावान्माहात्म्याद्भीतमिव त्रस्तमिव रणजालं सूर्यरश्मिसमूहस्तपोवनं मुनिस्थानं दूरतः परिहरति दूर एव यजति । मालिन्यस प्रतिनिधीभूतस्य सूर्यरश्मिभिर्विरोधात् । मालिन्याश्रयाश्रमाधिपतेर्मुनेः प्रभावामीतिरुचितैवेति एते चेति । एते सगीपवर्तिन आशुशुक्षणयो वह्नयः | पवनेति | पवनेन वायुना लोलश्चपल कृतः समूहीकृतः शिखाकलापो ज्वालासमूहो येषां ते तथा । तथा रचिताजलय इव विहिताञ्जल एतत्प्रीत्यैतन्मुनिम्नहेन मन्त्रपूतान्यचा पवित्राणि हवीपि होतव्यानि गृह्णन्ति स्वीकुर्वन्ति । 'अग्नि वह्निः-शिखावानाशुशुक्षणिः' इत्यमरः । गन्धेति । गन्धवाहो वायुरस्य मुनेः समीपं पार्श्व सशक इव २ a mata कि