पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । ८७ भगवतामेवंविधानामघक्षयकरिणाम् । पुण्यानि हि नामग्रहणान्यपि मेहामुनीनाम, किं पुनर्दर्शनानि । धन्यमिदमाश्रमपदमयमधिपतिर्यत्र अथवा भुवनतलमेव धन्यमखिलमनेना- धिष्ठितम वनितलक मलयोनिना | पुण्यभाजः खल्वमी मुनयो यद्हर्निशमेनमपरमित्र नलि- नासनमपगतान्यव्यापारा मुखावलोकन निश्चलदृष्टयः पुण्या: कथा: शुण्वन्तः समुपासते । सरस्वत्यपि धन्या यास्य तु सततमतिप्रसन्ने करुणाजलनिस्यन्दिन्यगाधगाम्भीर्ये रुचिरद्वि- अपरिवारा मुखकैमलसंपर्क मनुभवन्ती निवसति हंसीव मानसे | चतुर्मुखर्कमैलवासिभिश्च- 'तुर्वेदैः सुचिरादिवेदमपरमुचितमासादितं स्थानम् । एनमासाद्य शरत्कालमिव कैलिजलदस- मयकलुपिताः प्रसादमुपगताः पुनरपि जगति सरित इव सर्वविद्याः । नियतमिह सर्वात्मना ज्ञानलोचनेनाखिलं समग्रं जगद्विष्टपमालोकयतां पश्यतां भगवतां माहात्म्यवतामेवंविधानां पूर्वोक्तगुणविशि- टानाम् | हि निश्चितम् | अपक्षयकारिणां पापविनाशकानाम् । सहामुनीनामिति । महातपस्विनां नाम- ग्रहणान्यप्यभिधानोच्चारणमात्राण्यप्यायुर्घृतवत्कारण कार्योपचारात्पुण्यानि पुण्यजनकानि | दर्शनानीति । दर्शनानि तेषामवलोकनानि समग्रपापापहारकाणीत्यर्थे किं पुनर्भण्यते । अवश्यं तदपहारकाणीत्यर्थः । धन्यमिति । इदं प्रत्यक्षमाश्रमपदं मुनिस्थानं वन्यं कृतपुण्यम् । अत्रार्थे हेतुमाह – यत्रेति । यस्मिन्ना- श्रमपदेऽयं महान्मुनिरधिपतिर्नता । अथवेति पक्षान्तरे | अवनीति | अवनितलकमलयोनिना भुवन तलवहाणानेन प्रत्यक्षोपलभ्यमानेन मुनिनाधिष्ठितमाश्रितं भुवनतलमेव जगतीतलमेव धन्यं कृतपुण्यम् । 'सुकृती पुण्यवान्धन्यः' इति हैमः । आश्रमस्य तदन्तःपातिलादिति भावः । तच्छिष्याणां धन्यतां प्रति- पादयन्नाह – पुण्येति । खलु निश्चयेन । अमी मुनयः पुण्यभाजः सुकृतभाजः । यदिति हेत्वर्थे । अहर्निशं प्रत्यह- मपरमिवान्यमिव नलिनासनं कमलयोनिं समुपासतें सेवां कुर्वते । तानेव शिष्यान्विशिष्टि - अपेति । अपगतो दूरीभूतोऽन्यव्यापारस्तदितरकार्य येभ्यस्ते तथा । मुखेति । मुखस्य वदनस्य अर्थान्मुनिरिति शेपः । तस्य यदवलोकजं निरीक्षणं तेन निचला निमेषरहिता दृष्टिपां ते तथा । किं कुर्वन्तः | पुण्याः पवित्राः कथाः किंवदन्तीः शृण्वन्त आकर्णयन्तः । तद्वदनगतायाः सरस्वत्याः श्लाघां कुर्वन्नाह - सरस्वतीति । रारस्वत्यपि भारत्यपि धन्या श्राध्या या | तु पुनरर्थे । अस्य मुनेर्मुखमेव कमलं नलिनं तस्य संपर्क संबन्धम नुभवन्ती साक्षात्कुर्वन्ती मानसे मनसि निवसति निवासं करोति । उभयोः साम्यमाह - हंसीति । यथा मानसे सरसि हंसी मराली निवसति तथेयमपीत्यर्थः । अत्र प्रसन्नेत्यादिविशेषणानि मानसे मनसिं सरति च खत्रु- या योजनीयानि | अतीति । अतिशयेन प्रसन्ने प्रसादगुणयुक्ते । करुणेति | करुणा परदुःखप्रहाणेच्छा सेव जलं तस्य तयोर्वा निस्यन्दिन | साविण । अगाति । अगाधमतलस्पर्श गाम्भीर्यं गम्भीरता यस्मिन् | रु- चिरेति । रुचिरा मनोज़ा ये द्विजा दन्तास्त एव परिवारः परिच्छदो यस्याः सेति भारत्या विशेषणम् | चतु- रिति । चत्वारि यानि मुखकमलानि तत्र वासिभिः स्थायिभिश्चतुर्वेदैर्ऋग्यजुःप्रभृतिभिः सुचिरादिव चिरकाला-