पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । 9 अपरिचितम नृतस्य अश्रुतपूर्वमनङ्गस्य अजयोनिमिव त्रिभुवनवन्दितम् असुरारिमिव प्रकटितनैरह रिवर हरूपम्, सांख्यमिव कपिलाधिष्ठितम, मैधुरोपवनमिव बलावलीढदर्पित- धनुकम्, उदयनमिवानन्दितवत्सकुलम्, किंपुरुषाधिराज्यमित्र मुनिजनगृहीत कैलशाभिपि- च्यमानद्रुमम्, निदाघसमयावसानमिव प्रत्यासन्नजलप्रपातम्, जलघरसमय मित्र वनगहन- मध्य सुखसुप्तहरिम् हनुमन्तमिव शिलाशैकलप्रहारसंचूर्णिताक्षास्थिसंचयम्, खाण्डव विना- शोधवार्जुनमिव प्रारब्धाशिकार्यम्, सुरभिविलेपनधरमपि संतताविर्भूतव्यधूमगन्धम्, मातङ्गकुलाध्यासितमपि पवित्रम उल्लसितधूमकेतुशर्तमपि प्रशान्तोपद्रवम्, परिपूर्णद्विजप- तिमण्डलसनाथमपि सदासंनिहिततरुगहनान्धकारम्, अतिरमणीयमपरमित्र ब्रह्मलोकमा- ु श्रममपश्यम् | मित्यर्थः । एतेन सवैथा पातकाभावो व्यज्यते । अपरीति । अनृतस्यासत्यस्यापरिचितमसंनिहितम् । अ- श्रुतेति । अनस्य कामस्याश्रुतपूर्वमनाकर्णितपूर्वम् | मदनोद्दीपकत्वाभावात् । अति | अव्जयोनिमिव ब्रह्माणमिव । त्रिभुवनवन्दितं अभिवादितम् । पक्षे वन्दितं श्रेष्ठम् | असुरारीति | असुरारिर्विष्णुस्तद्वदिव प्रकटितानि नरो नरनारायणो हरिश्च नृहरिः । अथवा नरहरिर्नृसिंहो वराहव तेषां रूपाणि येन स तम् । पक्षे प्रकटितानि नरेभ्यो हरिवराहरूपाणि येन स तम् । सांख्येति । सांख्यं कापिलदर्शनं तदिव कपिलमुनि- नाधिष्ठितमाश्रितम् । तत्प्रणीतत्वात् । पक्ष कपिलाभिर्गोभिरधिष्टितम् | मधुरेति | मधुरा मधूपघ्नं तस्यो- पवन मित्र द्वादशवनेषु गर्भितं वनं तद्वदिव बलावलीढो बलवान्दर्पितो दर्पयुक्तो धेनुको दैलो यस्मिन् । पक्षे बलावलीढा: वलयुक्ता दर्पिता धेनवो गावो यस्मिन् | उदयनेति | उदयनं राजानमिवानन्दितं वत्स- कुलं येन । वत्सोऽत्र राजा पाण्डवकुलसमुत्पन्नः । पक्षे वत्सस्तर्णकस्तस्य कुलं समुदाय: । किंपुरुषेति । किंपुरुपः किंनरस्तस्याधिराज्यं प्रभुत्वं तदिव मुनिजनैर्गृहीता ये कलशास्तैरभिपिच्यमानो द्रुमोनाम राजा यस्मिन् । किंनराणां दुमो नाम राजाभूदिति प्रसिद्धिः । पक्षे द्रुमा वृक्षाः | निदाघेति । ग्रीष्मसमयाव- सानमिव शुक्रमासमिव प्रत्यासन्नः समीपस्थो जलप्रपातः प्रवर्षं यस्मिन् | पक्षे जलप्रपातो निर्झरः | जल- धरेति । जलवरसमयमिव पर्जन्यकालमित्र वनस्य पानीयस्य यद्गहनं गम्भीरं मध्यमभ्यन्तर प्रदेशस्तत्र सुखेन सुप्तो निद्रां प्राप्तो हरिर्विष्णुर्यस्मिन् | प्रावृषि विष्णुः समुद्रे शेत इति प्रसिद्धम् | पक्ष वनस्यारण्यस्य गहनानि गहराणि तेषु सुप्ता हरयः सिंहा यस्मिन् | हन्विति । हनुमन्तमिवाञ्जनीसुतमिव शिलाशकलप्रहारेण संचू. णितोऽक्षनाम्नो रावणपुत्रस्यास्थिसंचयो येन स तम् । पक्ष संचूर्णितो योऽक्षो बिभीतकस्तस्यास्थिसंचयो मध्य- प्रदेशसमूहो यस्मिन् । खाण्डवेति । खाण्डवनाम्नो वनस्य यो विनाशरतत्रोद्यत उद्योगवान्योऽर्जुनः फा- ल्गुनस्तमिव प्रारब्धं विहितमग्निकार्य देवसंतर्पणं यम्मिन् | पनिकार्य होमः | सुरभीति | सुरभि सुगन्धि ८० ." १ १