पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः | १ चयैः कलापिभिः पक्षपुटवनसंधुक्ष्यमाणमुनिहोमहुताशनम् आरब्धामृतचरुचारुगन्धम, अर्धपक्कपुरोडाशर्प रिमलामोदितम् अविच्छिन्नाज्यधाराहुतिहुसभुङ्कारमुखरितम्, उपचर्य- माणातिथिवर्गम्, पूज्यमानपितृदैवतम्, अर्यमानहरिहरपितामहम्, उद्दिश्यमानश्राद्धकल्पम्, व्याख्यायमानयज्ञ विद्यम, आलोच्यमानधर्मशास्त्रम्, वाच्यमान विविधपुस्तकम्, विचार्यमा- णसकलशास्त्रार्थम् आरभ्यमाणपर्णशालम्, उपलिप्यमानाजिरम्, उपमृज्यमानोटजाभ्यन्त- रम, आवध्यमानध्यानम्, साध्यमानमत्रम्, अभ्यस्यमानयोगम्, उपहूयमानवनदेवताच लिम्, निर्वर्त्यमानमौञ्जमेखलम्, क्षील्यमानवल्कलम् उपसंगृह्यमाणसमिधम्, उपसंस्क्रि- यमाणकृष्णाजिनम्, गृह्यमाणगवेधुकम्, शोष्यमाणपुष्कर बीजम्, प्रध्यमानाक्षमालम्, न्य. स्थमानवेत्रदण्डम, सँस्क्रियमाणपरिव्राजकम्, आपूर्यमाणकमण्डलुम्, अदृष्टपूर्व कलिकालस्य 5 , १ कोश: । उपजातेति । उपजातपरिचयैः संजातसंबन्धैः कलापिभिर्मयूरै: पक्षपुटपवनेन छदपुटानिलेन सं. त्रुक्ष्यमाणः प्रज्वाल्यमानो मुनीनां होमार्थं हुताशनो पहियरिंमन्य तम् । आरब्धेति । आरब्धो विहितो योऽमृतचरुर्यज्ञओदनस्तस्य चारु मनोहरो गन्धो यस्मिन्स तम् | अर्धेति । अर्धपक्को यः पुरोडाशः पूर्व- क्तस्तस्य परिमलो गन्धस्तेनामोदितं हर्षजननशीलम् | अवीति । अविच्छिन्नात्रुटिता याज्यधारा वृतधारा तथा हुतिहुँचनं तया यो हुतभुझकारोऽग्निशब्दस्तेन मुखरितं वाचालितम् | उपचर्येति । उपचर्यमाणः पर्युपास्यमानोऽतिथिवर्गो यस्मिन् | पूज्येति । पूज्यमानानि पितृदैवतानि पितरो यस्मिंस्तम् । अभ्येति । अर्च्यमानाः पूज्यमाना हरिः कृष्णः, हर ईश्वरः, पितामहः पितुः पिता ब्रह्मा, एते यस्मिन् | उद्दिश्येति । उद्दिश्यमान उद्देशपूर्वकं क्रियमाणः श्राद्धकल्पः श्राद्धाचारो यस्मिन्स तम् | व्याख्येति | व्याख्यामानार्थ- द्वारा निरूप्यमाणा यज्ञविद्या यागविद्या यस्मिन्स तम् | आलोच्येति | आलोच्यमानं मनसि विचार्यमाणं धर्मशास्त्रं स्मृत्यादिकं यस्मिन्स तम् | वाच्येति । वाच्यमानानि परिभाष्यमाणानि विविधान्यनेकप्रकाराणि पुस्तकानि शास्त्राणि यस्मिन्स तम् | विचार्येति । विचार्यमाणो युक्त्या स्थाप्यमानः सकलशास्त्रार्थी य स्मिन् । आरभ्येति । आरभ्यमाणा नवीना क्रियमाणा पर्णशालोटंजा यस्मिन् | उपलीति । उपलिण्य मानानि गोमयादिनाजिराण प्राणानि यस्मिन् | उपेति । उपमृज्यमानानि प्रसार्यमाणानि उटजाभ्यन्तराणि पर्णशालामध्यानि यस्मिन् | आवध्येति | आवध्यमानं ध्यान मेकप्रत्ययसंततिर्यस्मिन् | साध्येति । साध्यमानो होमादिना स्वायत्तीक्रियमाणो मन्त्रो देवाविष्टातृको यस्मिन् | अभ्यस्येति । अभ्यस्यमान उ द्योगविपयीक्रियमाणो योगश्चित्तवृत्तिनिरोधो यस्मिन् । उपेति | उपहूयमान उपढौक्यमानो वनदेवतायै बलि- यस्मिन् । निर्वयेति । निर्वयमाना निष्पाद्यमाना मौजमेखला यस्मिन् । क्षाल्येति । क्षाल्यमानानि व ल्कलानि यस्मिन् । उपेति । उपसंगृह्यमाणा उपादीयमानाः समिधो यस्मिन् | उपेति । उपसंस्क्रियमाणं