पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । UU क्षतकैन्दगर्तविषमिततलाभिर्दण्डकारण्यस्थलीभिरुपशोभितप्रान्तम् आगृहीतसमित्कुशकुसु- मभृद्भिरध्ययनमुखरशिंष्यानुगतैः सर्वतः प्रविशद्भिर्मुनिर्भिरैशून्योपकण्ठम्, उत्कण्ठिशि ण्डिमैण्डलश्रयमाणजलकलशपूरणध्वानम्, अनवरताज्याहुतिप्रीतैश्चित्रभानुभिः सशरीरमेव मुनिजनममरलोकं विनीषुभिरुद्धूयमानधूमलेखाच्छलेना वध्यमान स्वर्गमार्गगमनसोपानसेतु- भिरिवोपलक्ष्यमाणम्, आसन्नवर्तिनी भिस्तपोधनसंपर्का दिवापगतकालुण्याभिस्त रंगपरंपरासं- कान्तरं विबिम्बपङ्किभिस्तापसदर्शनागत सप्तर्पिमालाविगाह्य मानाभिरिव विकेंचकुमुदवनमृषि- जनमुपासितुमवतीर्ण ग्रहगणमिव निशासूद्वहन्तीभिर्दीर्घिकाभिः परिवृतम, अनिलावनमित- शिखराभिः प्रणम्यमानमिव वनलताभिरनवरतमुक्तकुसुमैरभ्यर्यमानमिव पादपैः, आवद्ध- पहवाञ्जलिभिरूपास्य मानमिव विटपैः, उटजाजिरप्रकीर्ण शुष्यच्छथामाकम् उपसंगृहीताम लकलवलीकै र्कन्धूकदलीलकुचचूर्वेपनसतालीफलम्, अध्ययनमुखरबटुजनम्, अनवरतश्रवण- 9 विवराणि तैर्विषमितमुच्चनीचतां प्राप्तं तलं यासु ताभिः । पुनः कीदृशम् । मुनिभिः करणभूतैरशुन्यमुपकण्ठं समीपं यस्य स तथा तम् । यथाक्रमं मुनीनां त्रीणि विशेषणानि व्याख्यापयन्नाह - आगृहीति | आ गृहीता आत्ताः समिध एवांसि, कुशा दर्भाः, कुसुमानि पुष्पाणि, मृदो गृत्तिकाः यैस्ते तथा तैः । अध्ययनेन वेदपारायणेन मुखरा वाचाला ये शिष्या विनेयास्तैरनुगतैः सहितैः सर्वतोऽभितः प्रविशद्भिः प्रवेशं कुर्वद्भिः। तद्गतपदार्थप्रदर्शनपूर्वकं पुनर्विशिनटि - उत्कण्ठीति | उत्कण्ठिना हल्लेखवता शिखण्डिमण्डलेन मयूरसमू- हेन श्रयमाण आकर्ण्यमानो जलेषु कलशपूरणध्वानः शब्दो यस्मिन्स तम् । अनवरतं निरत्ययमाज्येन सर्पिषा याहुतिर्हवनं तथा प्रीतैः संतुष्टैश्चित्रभानुभिर्वह्निभिः सशरीरमेव सविग्रहमेव मुनिजनमृषिवर्गममरलोकं स्व- र्गलोकं निनीषुभिर्नैतुमिच्छुभिरुयमाना कम्पमाना या धूमलेखा दहनकेतनवीथी तस्याश्छलेनाबध्यमानो विरच्यमानः स्वर्गमार्गगमनसोपानसेतुमिव स्वर्गस्य त्रिविष्टपस्य यो मार्गः पन्थास्तत्र गमनं तदर्थं सोपानसे- तुमिवोपलक्ष्यमाणं व्यज्यमानम् । दीर्घिकाभिर्वापी | अथ क्रमेण वाप्या विशेषणानि । आसन्नवर्तिनीभिः समीपसंस्थिताभिस्तपोधनैस्ताप सैः संपर्क: संवन्धस्तस्मादिवापगतकालुण्याभिदूरीभू- तमालिन्याभिस्तरंगपरंपरासु कोलवीथीषु संक्रान्ता प्रतिविम्बिता रविबिम्वस्य सूर्यबिम्बस्य पयो यासु तामिः | तरंगपरंपरामु प्रतिविम्बपरंपरेलर्थः । तजनितशोभान्तरं वर्णयन्नाह - तापसेति । ताप- सदर्शनार्थमागता प्राप्ता या सप्तर्पिमाला तया विगाह्यमानाभिरिव विलोड्यमानाभिरिव । एतेन सप्तर्पणां सूर्यप्रतिविम्वसादृश्यं ध्वनितम् । किं कुर्वतीभिः । निशासु रात्रिषु विकचकुमुदवनं विनिद्रकैरवचनमृपिजनं मुनिजनमुपासितुं सेवितुमवतीर्णमुपरिष्टादागतं ग्रहगणमिव नक्षत्रवृन्दमिवोद्वहन्तीभिर्धारयन्तीभिः । एतेन कुमुदवनग्रहणयोः स्वच्छत्वसारूयाद्रूपकमुक्तम् । पुनः प्रकारान्तरेण तमेव विशेषतो विशिष्टि - अनि लेति । अनिलेन वायुनावनमितं शिखरं प्रान्तं यामां तागिरेवंभूताभिर्वनलताभिररण्यवल्लीभिः प्रणम्यमान- W TA TITA