पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । निर्धूनन विशदसद: प्रेत्यप्रस्नानाईजटेन सकलेन तेन मुनिकुमारकदम्बकेनानुगम्यमानो मां गृहीत्वा तपोवनाभिमुखं शनैरगच्छत् । अनतिदूर मिव गत्वा दिशि दिशि सदा संनिहितकुसुमफेलैस्ताल तिलकतमाल हिन्तालबकु- लबहुलैरेलालता कुलितनौलिकेरीकलॉपैर्लोललोअलवलीलवङ्ग पल्लवैरुल्ल सितचूत रेणुपटलैरलिकु- लझङ्कारमुख र सहकारैरुन्मदकोकिलकुलकैलापकोलाह लिभिरुत्फुलकेतकीरजःपुञ्जपिञ्जरैः पू गीलतादोलाधिरूढवनदेवतैस्तार काँवर्षमिवाधर्मविनाशपिशुनं कुसुमनिकरमनिलचलितमन- वरतमतिधवलमुत्सृजद्भिः संसक्तपदपैः काननैरुपगूढम्, अचकितप्रचलितकृष्णसौरशतश- बलाभिरुत्फुल्ल कैंमलिनीलोहिनी भिमरीच मायामृगावलूनरूँढवीरुद्दलाभिर्दाशरथिचापकोटि- एवंभूतः संध्यातपः सायंकालीन सूर्यातप इव । करतलेति । करतलेन हस्ततलेन यन्निर्धूननमाच्छोटनं तेन विशदा निर्मला जटा सटा यस्य सः । प्रत्यमं तत्कालं मानेनादिभूता जटा सटा यस्य सः तथा तेन । सकलेन समग्रेण मुनिकुमारकदम्बकेन तापसशिशु समूहेनानुगम्यमानः। मामिति | मां वैशम्पायनं गृहीत्वा • दाय तपोवनाभिमुखं स्वाश्रमसंमुखं शनैर्ना तिवेंगे नागच्छदन्वतिष्ठत् । अनतिदृमिव गत्वा दविं पन्थानमतिकम्येत्यर्थः । अहमाश्रमं मुनिस्थानमपश्यमिति दूरेणान्वयः । कीदृशम् । काननैर्वनैम्पगृहं व्याप्तम् । अथ वनविशेषणानि व्याख्यापयन्नाह --दिशीत्यादि । दिशि- दिशि प्रतिदिशं सदा सर्वकालं संनिहितानि हस्तप्रायाणि कुसुमफलानि येषां तैः । तालस्तृणराजः, तिलकः श्रीमान्, तमालस्तापिच्छः, हिन्तालो वृक्षविशेषः, वकुलः केसरः एतैर्वहुईटैः । 'नीरन्ध्र बहुलं दृढम्' इति कोशः । एलायाश्चन्द्रबालाया या लता वल्लयस्ताभिराकुलितो व्याप्तो नालिकेरीकलापो लाङ्गलीसमूहो येपु तैः । लोलाचपला लोध्रो गालवः, लवली लताविशेषः, लवङ्गः श्रीसंज्ञः, एतेषां पल्लवा येपु तैः । उल्लसि- तानि बहिर्निर्गतानि चूतरेणुपटलान्याम्रपरागपुजानि येषु तैः । अलिकुलानां भ्रमरसमूहानां झङ्कारेण झङ्कृति- शब्देन मुखरा वाचालाः सहकारा येषु तैः । आम्रेष्वतिसौरभो यः स सहकार इति पूर्वस्माद्भेदः । अतो न पौनरुक्त्यम् । ‘आम्रचूतो रसालोऽसौ सहकारोऽतिसौरभः' इत्यमरः | उन्मदानि मदोन्मत्तानि यानि कोकि- लकुलानि पिककुलानि तेषां कलापः समूहस्तस्य कोलाहलः कलकलो येपु तैः । उत्फुल विकसिता याः केत- क्यो मालत्यस्तासां रजःपुञ्जः परागसमूहस्तेन पिजरैः पीतरक्तैः । पूगीलता क्रमुकलता एव दोलाः प्रेङ्खास्ता- स्वधिरूढा आश्रिता वनदेवता अरण्याधिष्ठाग्यो येषु तैः । पुनः किं कुर्वद्भिः | अनवरतं निरत्ययम निलचलितं वायुधूतमतिधवलमतिपाण्डुरं कुसुमनिकरं पुप्पसमृहमुत्सृजद्भिर्विकिरद्भिः । किमिव । तारकावर्षमिवोल्कापातमिव | तदपि किंचिदनिष्टस्य सूचकं भवति । इदमपि तथेलाह-अधर्मेति । अधर्मस्याशिष्टाचारस्य विनाशोऽभावस्तस्य पिशुनं सूचकम् । एतेन सर्वथा धर्माभावोऽत्रेति ध्वनितम् । संसक्ता अन्योन्यं मिलिताः पादपा वृक्षा येपु तैः । पुनः कीदृशम् | दण्डकारण्यं प्रसिद्धं तस्य याः स्थल्यः स्थलभूमयरतामिरुपशोभितं शोगां प्रापितं प्रान्तं पश्चाद्भागो यस्य स तम् । अतः स्थल्या विशेषण नि · · pā