पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः। सरस्वतीपाणिसरोजसंपुटप्रमृष्टहोमश्रमशीकराम्भसः । यशोऽशुशुक्लीकृत सप्तविष्टपात्ततः सुतो बाण इति व्यजायत ।। १९ ।। द्विजेन तेनाक्षतकण्ठकोण्ठ्यया महामनोमोहमलीमसान्धया। अलब्धवैदग्ध्यविलासमुग्धया धिया निवद्धेयमतिद्वयी कथा ॥ २० ॥ आसीदशेषनरपति शिरःसमभ्यर्चितशासनः पाकशासन इवापरः, चतुरुदधिमालाम- खलाया भुवो भर्ता, प्रतापानुरागावनतसमस्तसामन्तचक्रः, चक्रवर्ति लक्षणोपेतः, चक्रधर ली के ललाट देशेऽलकभङ्गतामलकाचूर्णकुन्तलास्तपां भो रचनाविशेषरतस्य भावस्तत्ता तां गतः प्राप्तः । एतेनाजलं ऋतुरामूह विधानेन धूमस्य दिगन्तव्यापित्वं सूचित मिति । पुनः किंविशिष्टः । त्रयोति । वी वेदनयी सैव वधूस्तस्याः कर्ण श्रोत्रे तमालपाल्लया इव तमालपछवः । श्यामत्वसाधात्तमालकिसलयेनो - पमानम् ॥ १८॥ सरस्वतीति । ततचित्रगानोर्वाण इति वाणाभिधानः सुतः पुत्रो व्यजायताभवत् । किंविशिष्टात्ततः । सरखतीति । सरस्वला भारल्या पाणिमुरोजसंपुटेन हखकमलयुग्मेन स्वयमेव प्रमृष्टं प्रोञ्छितं होमादि- कर्गसंवन्धि श्रमस्य खेदस्य शीकराम्भः प्रस्वेदजलं यस्य स तथा तस्मात् । पुनः कथंभूतात् । यश इति । यशमः कीर्तरंशवो दीप्तयस्तैः शुक्नीकृतानि शुभ्रीकृतानि सप्त रवितुरगप्रमितानि विष्टपानि भुवनानि येन स तथा तस्मात् । 'विष्टपं भुवनं जगत्' इत्यमरः ॥ १९ ॥ द्विजेनेति । इदानी वाणः कथां चिकीर्षुरति तीक्ष्णवुद्धिरम्यहंकारं निराकुर्वनाह-तेनेति । तेन वाणेन द्विजनेयं कादम्बरीरूपा कथा धिया बुध्व निबद्धा ग्रथिता । पूर्व बुद्ध्यारूढीकृल पश्चाटिखितेति भावः । शमुद्रसगकादम्बरीकथोपवन्धन धियः सामर्थ्य ज्ञात्वापि 'मन्दः कवियशःप्रार्थी' इत्यादिवद्धियो मान्धमे- वारोपयति-अक्षतेति । अक्षतमच्छिन्नं कण्ठे गले कौण्ठ्वं कुण्ठता यस्याः सा तथा तया । कण्ठेऽपि कु- ण्टिना किमुत रामायामपीति भावः । पुनः कथंभूतया । महेति । महानुत्कृष्टो यो मनोमोहश्चित्तविकलता तन गलीगसा गलिगा चासाबन्धा चेति तया । पुनः कथंभूतया । अलब्धेति । अलब्धोऽप्राप्तो यो वैद- उभयविलासश्चातुर्यलीला तेन मुग्धानगलमा तया । एतादृश्यापि बुद्ध्या रचिता कथा । अतिद्वयीति विशेषण- बलाहुद्धरतितीक्ष्णत्वं फलितम् । द्वयीं वृहत्कथां बाराव दत्तां चातिकान्तत्यर्थः ॥ २० ॥ 'प्रसिद्धो बापि वयः स्यान्महीपालोऽथवा । दशरूपकेऽपि- प्रख्यातोत्पाद्यमिश्रत्वदात्रेधापि नविधा । अग्न्यातमितिहासादरुपायं कविकल्पितम् । मिधं च संक- रात्' इत्यादेरुक्तभदानां काव्यनाटकचम्मूनां मध्ये 'गद्यपद्यमयी चम्यूड़िया शेपवती च या । राजव- र्णनमाग स्यानगरीवर्णनं ततः ॥ तथा चामुकमन्यग्मिन्न तु तना कुत्रचित् ॥' यथा-'शूलसंवन्धो 1