पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ कादम्बरी । इव करकमलोपलक्ष्यमाणशङ्खचक्रलाउछनः, हर इव जिलभन्मथः, गुह इबाप्रतिहतश- क्तिः, कमलयोनिरिब विमानीकृतराजहंसमण्डलः, जलधिरिव लक्ष्मीप्रसूतिः, गङ्गाप्र. वाह इव भगीरथपथप्रवृत्तः, रबिरित्र प्रतिदिवसोपंजायमानोदयः, मेहरिव सकलोप- जीव्यमानपादच्छायः, दिग्गज इवानवरतप्रवृत्तदानाद्रीकृतकरः, कर्ता महाश्चर्याणाम्, आहर्ता ऋतूनाम, आदर्शः सर्वशास्त्राणाम, उत्पत्तिः कलानाम, कुलभवनं गुणानाम, आगमः काव्यामृतरसानान, उदयशैलो भिन्नभण्डलय, उत्पातकेतुरहितजनस्य, प्रवर्त. भौमरतस्य यानि लक्षणानि सामुद्रिकशासप्रतिपादितानि तैरुपेतः सहितः । पुनस्तमेव विशेषयन्नाह-चक्रधरे- ति । करकमले हस्तपम उपलक्ष्यमाणं दृश्यमानं शङ्खचक्राकारं च रेखोपरेखाखका लाञ्छनं चिहं यस्य स तथा । क इव । चक्रधर इव विष्णुरित्र । सोऽपि शचक्रायुधलाग्छितकरः स्यादित्युपमानोपमेय- भावः । हर इवेति । जितो निजितो मन्मथजनक बान्मन्मथानीन्द्रियाणि येन स तथा । क इव । हर इव शंभुरिव सोऽपि जितमन्मथः स्यादित्युभयोः साम्यम् । गुह' इति । अप्रतिह्ताकुण्ठिता शक्तिः सा- मर्थ्य यस्येति स तथा । क इव । गुह् इव कार्तिकेय इव । सोऽध्यातिहतशक्तिः स्यादित्युभयोः साम्यम् । एतत्पक्षे शक्तिरस्वविशेषः । अतएव 'पाण्मातुरः शक्तिधरः' इलमरः । विगतेति । विगतो मानो दो यस्य तद्विमानं तथा कृतं राजहंसानां श्रेष्ठनृपाणां मण्डलं न्दं येन रा तथा । क इव । कमलयोनिरिव विधातेव । एतत्पक्षे विमानं देवयानं तत्स्वरूपीकृतं राजहंमागां पक्षिविशेषाणां मण्डलं येन स तथा । हंगा- धिरूडलादिति भावः । 'देवयानं विमानं स्यात' इत्यमरः । 'राजहंसास्तु ते चनुचरणरतिलोहितैः' इत्यमरः । जलधीति । लक्ष्मीः संपत्तिः शोभा वा । 'लक्ष्माइछाया च शोभायाम्' इति हैमः । तस्याः प्रसूतिरुत्पत्तिस्थानं शोभाया वा। क इव । जलधिरिव समुद्र इव । सोऽपि लभ्या रमायाः शोभाया वोत्पत्तिः स्थानं समुद्रमथनादेव तन्निर्गमात् । तथाच जगद्विभुषित मिति शोभाजनकल मिति भावः । गङ्गेति । भगीरथस्य राज्ञः पन्थाः तृणामुद्धारस्तत्र प्रवृत्तो लग्नः । क इव । गङ्गाप्रबाह इव खर्धनीरय इव । सोऽपि भगीरथपथप्रवृत्तः स्यातदनुयायित्वादित्युभयोः साम्यम् । रविरिति । प्रतिदिवसं प्रत्यहम् उप जायमान उ. त्पद्यमान उदयः संपत्तेरुद्रेको यस्य स तथा । क इव । रविरिव भानुरिव । सोऽपि निरन्तरमुदयादचलाजाय- मानोद्गमः स्यादित्युपमा । मेरुरिति । राकलः समराल्लोकरुपजीव्यमाना सेव्या पादच्छाया कान्तिर्यस्य स तथा । क इव । मेरुरिव स्वर्गादि रिव । स कथंभूतः । सकलैरीदेवः । अन्येषां तत्र प्रवेशाभावात् । उपजीव्याः पादाः प्रत्यन्त पर्वतारतेपो छायातपाभावो यस्य स तथा । 'छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः' इत्य- मरः । दिग्गज इति । अनवरतं निरन्तरं प्रवृनं कृतं यद्दानं जलसहितं देयद्रव्यं तेनाद्रकृतः स्तिमितः करो हस्तो यस्य स तथा । क इन । दिग्गज इव विशाग इव । एतत्पक्षे निरन्तरप्रवृत्तं प्रचलितं यद्दानं मन मदो दा प्रवृत्तिः' इति नः । तेन स्तिमितः कारः अण्डादण्डो यस्य स तथेत्यापमा ति।