पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी। विधानसंपादितदानशोभितैः स्फुरन्महावीरसनाथमूर्तिभिः । मखैरसंख्यैरजयत्सुरालयं सुखेन यो यूपकरैगजैरिब ।। १५ ।। स चित्रभानुं तनयं महात्मनां सुतोत्तमानां श्रुतिशास्त्रशालिनाम् । अवाप मध्ये स्फटिकोपलोपमं क्रमेण कैलास मिव क्षमाभृताम् ।। १६ ।। महात्मनो यस्य सुदूरनिर्गताः कलङ्कमुक्तेन्दुकलामलत्विपः । द्विषन्मनः प्राविविशुः कृतान्तरा गुणा नृसिंहस्य नेखाङ्कुरा इव ॥ १७ ॥ दिशामलीकालकभङ्गतां गतस्त्रयीवधूकर्णतमालपल्लवः । चकार यस्याध्वरधूमसंचयो मलीमसः शुक्लतरं निजं यशः ॥ १८ ॥ उपःसु प्रातःसमयेषु विसारि विसरणशीलं वाङ्मयं चतुर्दश विद्यात्मकत्वं विवृण्वनः । अध्यापयत इत्यः किंभूताः शिष्याः । श्रवणे गुरोर्वचनाकर्णने लग्नाः सावधानाः । यता । श्रवण कर्ण लगाः । जगद्वि' इत्यर्थः । क इव । यथा चन्दनवृक्षस्य मलयजतरोः पल्लवाः किसलयानि नवा नवाः प्रतिदिनमम्ल श्रवणे कर्णे लग्नाः सन्तः शोभां कुर्वन्ति । रगण्या इति शेपः ॥ १४ ॥ विधानेति । योऽर्थपतिरसंख्यैरगण्यम यज्ञः सुखेनाप्रयासेन मुरालयं वर्गम जयत् । आचक्रामेल्य किंभूतैर्मखैः । विधानेति । विधानेन विध्युक्तमार्गेण संपादितं विहितं यद्दानं ब्राह्मणेभ्यः स्वर्गादियां दनं तेन शोभितैः । विशिष्टदक्षिणरित्यर्थः । पुनः किंभूतः । स्फुरदिति । स्फुरन्त उज्वलन्तो ये महा श्रौतामयस्तैः सनाथा सहिता मूर्तिः खरूपं येषां ते तथा तैः । अग्नित्रय हितरित्यर्थः । 'होमाग्निस्तु ज्वालो महावीरः प्रवर्गवत्' इति कोशः । पुनः किंभूनः । यूपकररिति । यूपा यज्ञे पशुवन्धनार्थ र विशेषास्त एव करा हस्ता येषां ते तथा तैः । करिव गरिवति यज्ञ गजयोः शब्दसाम्येनोपमा । भूतैर्गजैः । विधानेन मदोद्रेकार्थं गजादीनां दीयमानभक्ष्यविशेषेण । अत एव विधानपिण्डम्नेह तिम याहुरिभाधिराजम्' इति माघे । तेन संपादितं निप्पन्नं यदानं मदजलं नन शोभिनेः । पुनः पक्षे स्ट शुरा ये महावीरा योद्धारस्तैः सनाथमूर्तिभिः । अधिष्ठित रित्यर्थः । पुनः पक्षे यूपवद्यज्ञस्तम्भवत्करः दण्डो येषां ते तथा तैः ॥ १५ ॥ स इति । सोऽर्थपतिः क्रमेण । वंशक्रमेणेत्यर्थः । महात्मनां जितेन्द्रियाणां श्रुतिशास्त्रशालिनां शास्त्राध्यापकानां मुतोत्तमानां पुत्राणां मध्ये चित्रभानुसंज्ञकं पुत्रमबाप लेगे । किंभूतम् । स्फटिळ स्फटिकोपलः क्षारतलस्फटिकाभ्यामन्यः स्वच्छस्फटिकस्तद्वदुपमा यस्य स तथा तम् । निष्कल कमित्यर्थ भूतानां सुतोत्तमानाम् । क्षमाभृतां क्षान्तिमताम् । किंभूनमिव । कैलास मित्र । पक्षे क्षमाभृतां भूधराण वरमित्यर्थः । 'क्षितिक्षान्योः क्षमा' इत्यमरः । पक्षे स्फटिकाइमभिर्निर्मितं स्फटिकमयत्वात्कलासस्येति । अपिशब्दाध्य हरेण पितः समोऽपि द्विपन्मनः श . गा जिनभानोर्गणाः