पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः। ५५ ध्वनिः, इतो वनमहिपविषाणकोटिकुलिशभिद्यमानवल्मीकधूलिः, इतो मृगकदम्बकम्, इतो वनगजकुलम, इतो नवराहयूथम्, इतो वनमहिषवृन्दम्, इतः शिखण्डिमण्डलविरुतम्, इतः कपिजलकुलकलकूजितम् , इतः कुररकुल कणितम्,इतो मृगपतिनखभिद्यमानकुम्भकुञ्ज- ररसितम्, इयमार्द्रपङ्कमलिना वैराहपद्धतिः, इयमभिनवशष्पकवलरसश्यामला हरिणरोम. न्थफेनसंहतिः, इयमुन्मदगन्धगजगण्डकण्डूयनपरिमलनिलीनमुखरमधुकरविरुतिः, एपा निपतितरुधिरबिन्दुसिक्तशुष्कपत्रपाटला रुरुपदवी, एतद्विरदचरणमृदितविटपपल्लवपटलम, एतखंगिकुलक्रीडितम्, एष नखकोटिविकट विलिखितपत्रलेखो रुधिरपाटलः करिमौक्तिकद- लदन्तुरो मृगपतिमार्गः, एषा प्रत्यग्रप्रसूतवनमृगीगर्भरुधिरलोहिनी भूमिः, इयमटवी वेणि- कार्नुकारिणी पक्षचरस्य यूथपतेर्मदजलमलिना, संचारवीथीचमरीपतिरियमनुगम्यताम्, उच्छुकमृगकरीषपांसुला त्वरिततरमध्यास्यतामियं वनस्थली, तरुशिखरमारुह्यताम्, आलो- वज्रम् । अभेद्यत्वात्तदुपमानम् । तेन भिद्यमानं छिद्यमानं यद्वल्मीकं शक्रशिरस्तस्य धूलिः पांसुः । इत इति। मृगाणां हरिणानां कदम्वकं समुदायः । इत इति । वनगजानामरण्यहस्तिनां कुलं समुदायः । इत इति । वनवराहा वनक्रोडास्तेषां यूथं वृन्दम् । इत इति । वनमहिषाणां वृन्दं कुलम् । इत इति । शिखण्डिनां मयूराणां मण्डलं समूहरतस्य विरुतं कूजितम् । इत इति । कपिजलानां गौरतितिराणां कुलं समुदायस्तस्य कलं मधुरं कूजितं शब्दितम् । इत इति । कुररो मत्स्यनाशनस्तस्य कुलं पुत्रपौत्रादि तस्य क्वाणितं शब्दिम् । इत इति । मृगपतिः सिंहस्तस्य नखाः पुनर्भवास्तैर्भिद्यमानो विदार्यमाणः कुम्भः शिरःपिण्डो येपामेवंभूताः कुञ्जरा हस्तिनस्तेषां रमितमाक्रन्दितम् । इयमिति । इयं प्रत्यक्षाऽशुष्को यः पङ्कः कर्दमस्तेन मलिना मली. मसा वराहपद्धतिर्वनकोडमार्गः । इयमिति । इयमिति पूर्ववत् । अभिनवान्यचिरोत्पन्नानि यानि शष्पाणि बाल- तृणानि तेषां कवलो गुडस्तस्य रसस्तेन श्यामला मलिनैवंविधा हरिणानां मृगाणां यो रोमन्थश्चर्वितचर्वणं तस्य फेनः कफस्तस्य संहतिः समूहः । इयमिति । उन्मदा मदोन्मत्ता ये गन्धगजा गन्धेभाः । सुरभिमद- युक्ता इत्यर्थः । तेषां गण्डः करटस्तस्य कण्डूयनेन कण्डूत्या यः परिमल आमोदस्तस्मिनिलीना आसक्ता मुखरा वाचाला ये मधुकरा भ्रमरास्तेषां विरुतिझङ्कारः । एषा दृश्यमानेत्यर्थः । निपतितेति । निपतिता भूमौ खस्ता ये रुधिरविन्दवो रक्तपृषतारतैः सिक्तानि सिञ्चितानि यानि शुष्कपत्राणि तैः पाटला श्वेतरक्ता रुरुपदवी मृग. विशेषमार्गः । एतदिति । एतत्समीपतरवर्ति द्विरदा हस्तिनस्तेपां चरणाः पादास्तैम॑दितं मर्दितं विटपानां वृक्षाणां पल्लवपटलं किसल मूहो म्मिन्नेत हुां स्थलमित्यर्थः । एतनिति एतहश्यमानं खजिनांना