पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी। ५१ शैशवादसंजातवलसमुद्भिद्यमानपक्षपुटे पितुः समीपवर्तिनि कोटरगते, सहसैव तस्मिन्महा- वने संत्रासितसकलवनचरः सरभससमुत्पतत्पतत्रिपक्षपुटशब्दसंततः भीतकरिपोतचीत्कार- पीवरः प्रचलितलताकुलमत्तालिकुलक्कणितमांसलः परिभ्रमदुद्धोणवनवराहरवधर्घरो गिरिगु- हासुप्तप्रबुद्धसिंहनि दोपबंहितः कम्पयन्निव तरून्भगीरांवतार्यमाणगङ्गाप्रवाहकलकलबहलो भीतवनदेवताकाणतो मृगयाकोलाहलध्वनिरुदचरत् । आँकर्ण्य च तमहमश्रुतपूर्वमुपजातवेप- थुरर्भकतया जर्जरितकर्णविवरो भयविह्वलः समीपवर्तिनः पितुः प्रतीकारबुङ्या राशि- थिलपक्षपुटान्तरमविशम् । अनन्तरं च सरभसमितो गजयूथपतिलुलितकमलिनीपरिमलः,इतः क्रोडकुलदश्यमानभ- द्रमुस्तारसामोदः, इतः करिकलभभज्यमानसल्लकीकषायगन्धः, इतो निपतितशुष्कपत्रमर्म- विशेषयन्नाह-कोटरेति । कोटरगते निष्कुहस्थिते । शैशवादिति । शैशयाद्वाल्यादसंजातमनुत्पन्नं यदलं तेन रामुद्भियमानं विलीयमानं पक्षपुटं यस्य स तथा तस्मिन् । विधेयमाह-सहसैवेति । तस्मिन्पू- बोक्त महावने सहमैवाकस्मादेव मृगयाखेटकस्तस्याः कोलाहलध्वनिः कलकल लक्षणः शब्द उदचरदुदतिष्ठत । अथ पनि विशेषयन्नाह-संत्रासितेति । संत्रासिता भयं प्रापिताः सकलवनचराः समग्रारण्यचारिणो येन स तथा । सरभसेति । सरभसेन वेगेन समुत्पतन्तो ये पतत्रिणः पक्षिणस्तेषां पक्षपुटानि छदपुटानि तेषां शब्दो निनादस्तेन सम्यक्प्रकारेण ततो विस्तीर्णः । भीतेति। भीतास्त्रस्ता ये करिपोताः कलभास्तेषां चीत्काराः शब्दविशेपास्तैः पीवरः पुष्टः । प्रचलितेति । प्रचलिताः कम्पिता या लता वल्लयस्तास्वाकुला व्याकुला ये मत्तालयो मत्तत्रमरास्तेषां कुलानि तेषां कणितेन शब्दितेन मांसलः पुष्टः । परीति । परिभ्रमन्त इतस्ततः संचरन्त उदोगा उच्चनासा ये वनवराहा अरण्यशूकरास्तेषां रवः शब्दस्तेन धर्धरः कठोरः । गिरीति । गिरिगुहामु दौलकन्दरामु पूर्व मुप्ताः पश्चात्प्रबुद्धा उत्थिता ये सिंहाः केसरिणस्तेषां यो निनादः शब्दस्तेनो- पहितो वृद्धि प्राप्तः । पुनः किं कुर्वन्निव । तरून्वृक्षान्कम्पयन्निव चालयनिव । भगीति । भगीरथेन राज्ञा- वनार्यमाणोऽवस्तादानीयमानो यो गङ्गाप्रवाहः स्वधुनीस्रोतस्तस्य यः कलकलरतद्वदलः प्रभूतः । भीतेति.। भीता भयं प्राप्ता या वनदेवतास्ताभिराकार्णितः श्रवणविपयीकृतः । आकर्ण्य चेति । अहमश्रुतपूर्वं तं शब्दमाकर्ण्य श्रुन्या प्रतीकारवुद्ध्ाा भयनिवृत्त्युपायधिया समीपवर्तिनो निकटस्थस्य पितुर्जनकस्य जरया विग्नसया यच्छिथिलं लथं पक्षपुटं तस्यान्तरं मध्यमविशं प्रविष्टोऽभवम् । कीदृशोऽहम् । उपेति । उपजा- तवेपथुः संजातकम्पोऽर्भकतया बालतया तादृशशब्दश्रवणादेव जर्जरितं प्रतिरुद्धं कर्णयोः श्रवणयोर्विवरं छिद्रं यस्य रा तथा । अनन्तरं चेति । पितुः पक्षपुटान्तरप्रवेशानन्तरम् । चकारः पूर्वसमुच्चये । कोलाहलमशृणवमित्यप्रेतनेन संबन्धः । तदेव दर्शयति--सरभसमित्यादि । इतोऽस्मिन्प्रदेशे सरभसं वेगवत्तरं गजयूथपतिना ललिता