पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः। ५३ गण्डडिण्डिमानां मधु लिहां कुमुदोदरपु विघटमानंदलपटनिरुद्धपक्षसंह तीनामुञ्चरत्सु हुंका- रेपु, प्रभातशिशिरवाय्वाहतमुत्तप्तजतुरसाश्लिष्टपक्ष्ममालमिव सशेपनिद्राब्रिह्मतारं चक्षुरु- न्मीलयत्सु शनैःशनैरूपरशय्याधूसरक्रोडरोमराजिपु वनभृगेपु, इतस्ततः संचरत्सु वनचरेपु, विजृम्भमाणे श्रोत्रहारिणि पम्पासर कलहंसकोलाहले, समुल्लसति नर्तितशिखण्डिनि मनोहरे वनगजकर्णतालशब्दे, क्रमेण च गैगनतलमवतरतो दिवसकरवारणस्यावेचूलचामरकलाप इ- वोपलक्ष्यमाणे मजिष्ठरागलोहिते किरणजाले शनैःशनैरुदिते भगवति सवितरि पम्पासरः पर्यन्ततरुशिखरसंचारिण्यध्यासितगिरिशिखरे, दिवसकरजन्मनि हततारे पुनरिव कपीश्वरे वनमभिपतति वालातपे, स्पष्टे जाते प्रत्यूपसि नचिरादिव दिवसाष्टमभागभाजि स्पष्टभासि भास्वति भूते, प्रयातेपु च यथाभिमतानि दिगन्तराणि शुककुलेपु, कुलायनिलीननिभृतशुक- शावकसनाथेऽपि निःशब्दतया शून्य इव तस्मिन्वनस्पती, स्वनीडावस्थित एव ताते मयि च । रात्सु । वनमृगेति । वनमृगेवर परण्यहरिणेषु शनैः शनैश्चक्षुर्नमुन्मीलयत्सु विकासयत्सु । अथ चक्षुर्विशेषय- नाह-प्रभातेति । प्रभातं प्रत्यूपरतस्य यः शिशिरः शीतलो वायुः सगीरस्तेनाहतं पीडितम् । उत्तप्तेति । उत्तप्त उष्णीकृतो यो जतुरसो लाक्षारसस्तेनाश्लिष्टालिङ्गिता पक्ष्ममाला नेत्ररोमपतिर्यस्य तदिव । सशेषेति राशेपोद्धरिता या निद्रा तया जिहाा कुटिला तारा कनीनिका यस्य तत् । कीदृशेषु वनमृगेपु । ऊप- रेति । ऊपरा तृणरहिता या शय्या शयनस्थलं तेन धूसरा धूम्रवर्णा क्रोडरोमराजिहृदयलोमपति]पां तेषु। पुनः कीदृशेषु । इतस्ततः समन्ततो वनचरेष्वरण्यचारिपु संचरत्सु गच्छत्सु । पुनः केषु सत्सु । विजृम्भेति । श्रोत्र हारिणि कर्णमनोहरे पम्पानाम्नः सरसः कलहंसकोलाहले कादम्बकलकले विजृम्भमाणे प्रसृते सति। पुनः केषु सत्सु । समुल्लसतीति । नर्तिताः शिखण्डिनो मयूरा येन तस्मिन्मनोहरे रुचिरे वनगजानामरण्यकरिणां कर्णा एव ताला घाद्यविशेषास्तपां शब्दो ध्वनिरतस्मिन्स मुल्लसति सति सम्यक्प्रकारेण प्रसरति सति । कमे- णति । क्रमेण परिपाट्या गगनतलमाकाशमार्गमवतरतोऽधिरोहतो दिवसकरवारणस्य सूर्यगजस्य । अवचू. लेति । अवचूलोऽधोमुखकूर्चको यश्चामरकलापरतस्मिन्निबोपलक्ष्यमाणे दृश्यमाने मञ्जिष्टस्य वस्तुविशेषस्य रागो रक्तिमा तेन लोहिते रक्तीभूते किरणजाले रश्मिसमूहे सति शनैःशनैर्नातिशीघ्रं भगवति माहात्म्यवति सवितरि श्रीसूर्य उदिते उदयं प्राप्त सति । कीदृशे । पपेति । पम्पासरःपर्यन्तानि यानि तरुशिखराणि तेषु संचारो विद्यते यस रा तथा तस्मिन् । अध्यति। अनामितान्याश्रितानि गिरिशिखराणि पर्वतशाणि येन स तस्मिन् । अथ वालातपं विशेषयन्नाह-दिवसति । दिवसकरात्सूयांजन्म यस्य स तथा तस्मिन् । हृता दूरीकृता तारा येन स तथा तस्मिन् । पुनस्तदनन्तरं कपीश्वरे मुग्रीव इव । तरुशिखरचारित्वात्तततारत्वाच्च तदुपमानम् । तं वृक्षं पूर्वोक्तमभिपतति व्यामुवति वालातपे नवीनालोके सति । तथा प्रत्यूषसि प्रभाते सष्टे व्यक्ते जाते सति नचिरादिव स्तोककालेनेव दिवसस्याप्टमो भागश्चतुर्धटिकात्मकस्तं भजतीति भाक् । विण्प्रत्ययान्तः । तस्मिन्स्पष्टा मिसावी जयनपनापानी