पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२६ कादम्बरी। क्यतां दिगियम्, आकर्ण्यतामयं शब्दः, गृह्यतां धनुः, अवहितः स्थीयताम, विमुकयन्तां श्वान इत्यन्योन्यमभिवदतो मृगयासक्तस्य महतो जनसमूहस्य तरुगहनान्तरितविग्रहस्य शोभितकाननं कोलाहलमशृणवम् । अथ नातिचिरादेवानुलेपनामृदङ्गवनिधीरेण,गिरिविवरविजम्भिततिनादगम्भीरेण शव- रशरताडितानां केसरिणां निनादेन संत्रस्तयूथमुक्तानामेका किनां च संचरतामनवरतकरास्फो- टमिशेण जलधररसितानुकारिणा गजयूथपतीनां कण्ठंगजितेन, सरभससारमेयविलुप्यमाना- वर्यबानामालोलतरलतारकाणामेणकानां च करुणकूजितेन, निहतयूथपतीनां बियोगिनीनाम- नुगतलमानां च स्थित्वा स्थित्वा समाकर्ण्य कल कलमुत्कर्णपल्लवानामितस्ततः परिभ्रमन्तीनां प्रत्यापतिविनाशशोकदीर्पण करिणीनां चीत्कृतेन, कतिपय दिवसप्रसूतानां च खङ्गिधेनुकानां त्रासपरिभ्रलपोतकान्वेपिणीनामुन्मुक्तक टमारसन्तीनामाक्रन्दितेन,तरुशिखरसमुत्पतिताना- लोकविषयीक्रियताम् । अयं शब्द आकर्यतां श्रूयताम् । अनुवापो गृह्मतां स्वीक्रियताम् । अव हितैः साव. धानः स्थीयतामुपविश्यताम् । श्वानः कोले यका विमुच्यन्ता प्रस्थाप्यन्तामित्यन्योन्यमिति पूर्वोक्त प्रकारेणा- न्योन्यं परसरमभिवदतो जल्पतो मृगयासक्तम्याग्वेटकासत्तास्य महतो महीयगो जनसमूहस्य जनवृन्दस्य तम्णां वृक्षाणां गहनं निकुन्नतेनान्तरितो व्यवधानीकृतो विग्रहः शरीरं यस्य स तथा तस्य क्षोभितकानन- मान्दोलितारण्यं यथा स्यात्तथा कोलाहलं कलकलमणवमीपम् । अथेति । अथेत्यानन्तर्ये । नातिचिरादेव स्वल्पकालेनैव सर्वतोऽभितः प्रचलितमिव कम्पितमिव तदरण्य- मभवत् । केन । अन्विति । अनुलेपनं द्रवद्रव्यं तेनाः स्विन्नो यो मृदङ्गो मुरजस्तस्य ध्वनिः शब्दस्तद्वद्धीरेण गम्भीरेण । गिरीति । गिरिविवरेयु पर्वतच्छिद्रेषु विजृम्भितः प्रसृतो यः प्रतिनादः प्रतिच्छन्दस्तेन गम्भी- रेण मन्द्रेण । पुनः केन । शबरेति । शवरा भिल्लास्तेषां शरा वाणा रतस्ताडितानां व्यथितानां केसरिणां सिंहानां निनादेन शब्देन । पुनः केन । संत्रस्तेति । संत्रस्तं चकितं ययूथं तेन मुक्तानागेका किनां च संचरतां ग- च्छतामनवरतं निरन्तरं यः करास्फोटः शुण्डाघातस्तेन मिश्रः संवलिनो जलधशे मेघस्तस्य रसितं गर्जितं तदनुकारिणा जयूथपतीनां हम्तिसमुदायनाधानां कण्टगजितेन निगरणररितेन । पुनः केन । सरमा सेति । सरभसं वेगवत्तरं सारमेयैः श्वभिर्विलुप्यमाना दूरीक्रियमाणा अवयवा अपघना येषां ते तथा तेषा- मालोलाश्चञ्चला अत एव तरला स्फुटिता तारका कनीनिका येषामेवं विधानामेणकानां हरिणानां करुणं करुणरसोत्पादकं यत्कूजितं शब्दितं तेन । पुनः केन । करिणीनां हरित नीनां चीत्कृतेन चीत्कारश- ब्देन । कीदृशेन । प्रत्यग्रेति । प्रत्यग्रस्तत्कालीनो यः पतिविनाशशोकस्तेन दीर्घेणायतेन । हस्तिनी विशेप- यन्नाह-इतस्तत इति । इतस्ततः समन्ततः परिभ्रमन्तीनां परिभ्रमणं कुर्वन्तीनां । उत्कर्णति । उदूर्व कर्णपल्लवा यासां तास्तासाम् । किं कृत्वा । स्थित्वा स्थिल पर्वोक्तं कलकलं समाकश्य शला । शक्तिति ।