पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९४ कादम्बरी । न्तया | प्राणास्तावदस्य येनकेनचिदुपायेन शुभेनाशुभेन वा रक्षणीयाः । तेषां च तत्समागम- मेकमपहाय नास्त्यपरः संरक्षणोपायः | बालभावादप्रगल्भतया च तपोविरुद्धमनुचितमुपहा- समिवात्मनो मदनव्यतिकरं मन्यमानो नियतमेकोच्छ्वासावशेषजीवितोऽपि नायं तस्याः स्व- यमभिगमनेन पूरयति मनोरथम् । अकालान्तरक्षमचायमस्य मदनविकारः | सततमतिगर्हि- तेन कृत्येनापि रक्षणीयान्मन्यन्ते सुहृदसून्साधवः । तदतिहेपणम कर्तव्यमध्येतदस्माकमवश्यक- र्तव्यतामापतितम् । किं चान्यत्क्रियन्ते । का चान्या गतिः । सर्वथा प्रयामि तस्याः सकाशम् । आवेदयाम्येतामवस्थाम्' इति चिन्तयित्वा कदाचिदनुचितव्यापारप्रवृत्तं मां विज्ञाय संजात- लज्जो निवारये दिल्यनिधेचैव तस्मै तत्प्रदेशात्सव्याजमुत्थायागतोऽहम् । तदेवमवस्थिते यद- श्रावसरप्राप्तम्, ईदृशस्य चानुरागस्य सदृशम् अस्मदागमनस्य चानुरूपम्, आत्मनो वा समुचितं तत्रभवती प्रभवति' इत्यभिधाय किमियं वक्ष्यतीति मन्मुखासक्तदृष्टिस्तूष्णी- मासीत् । अहं तु तदाकर्ण्य सुखामृतमये हृद इव निमना, रतिरसमयमुद्धिमिवावतीर्णा सर्वानन्दानामुपरि वर्तमाना सर्वमनोरथानामग्र मिवाधिरूढा, सर्वोत्सवानामतिभूमिमिवाधि- शयाना, तत्कालोपजातया लज्जया किंचिदवनभ्य मानवदनत्वादस्पृष्टकपोलोदरैः प्रथितैरि- १ १ १ शुभेनाशुभेन वा येन केनचिदुपायेन ग्राणा असवो रक्षणीयाः । तेषां चेति । तेषां प्राणानाभेकं तस्याः समा- गममपहाय विहायापरो भिन्नः संरक्षणोपायो नास्ति | बालभावाच्छिशुस्वभावादप्रगल्भतयाप्रतिभान्वितया च तपोविरुद्धं व्रतविरोध्यनुचितमयोन्यमात्मनः स्वस्योपहासमिव मदनव्यतिकरं कंदर्पवृत्तान्तं मन्यमानो ज्ञायमानो नियतं निश्चितमेक एवोच्छ्वास आहरो (?)ऽवशेषोऽवशिष्टो यस्मिन्नेतादृशं जीवितं प्राणितं यस्यैवंभूतोऽययं पू. र्वोक्तानौचित्यवशात्तस्या महाश्वेतायाः स्वयमभिगमनेनात्मनागमनेन मनोरथं चित्ताभिलाषं न पूरयति न पू- रयिष्यति । ‘वर्तमानसामीप्ये वर्तमानवद्वा' इति भविष्यत्यर्थे वर्तमाना | यथा श्रुतमेव वा किं त्वन्यस्य गमनेन तस्याः संगमो भविष्यति तथाप्यन्यस्याप्यभिगमनेन का त्वरेत्यत आह - अकालेति । अस्य पुण्डरीकस्यायं मदनविकारो न कालान्तरं क्षमते । चिरकालं न तिष्ठतीत्यर्थः । अन्यस्य तदभिगमनप्रयासेन किं प्रयोजन मि त्यत आह - २ ह - सततमिति | सततं निरन्तरमतिगर्हितेन निन्दितेन कृत्येनापि कार्येणापि साधवः सन्तः सुहृ- दसून्मित्रप्राणान्रक्षणीयान्मन्यन्ते जानन्ति । तदतीति । तदेतदतिहेपणमण्यतिलजाम हम प्य कर्तव्यमप्यना- चरणीयमप्यस्माकं पुण्डरीकमार्गानुवर्तिनामवश्यकर्तव्यतां नियतविधेयतामापतितमुपस्थितम् । चिन्तितमुपसं- हरन्नाह — किचेति । एतव्यतिरिक्तमन्यत्किं क्रियते इत्यर्थः । अन्या एतव्यतिरिक्ता का गतिः । न कापीत्यर्थः । अतः – सर्वथैच । सर्वप्रकारेण तस्या महाश्वेतायाः सकाशं समीपं प्रथामि गच्छामि । एतां प्रत्यक्षामवस्था दशामावेदयामि कथयामि । इति चिन्तयित्वेति विचिन्त्य | इतिशब्दवोत्यमाह - कदाचिदिति । अनुचि तोऽयोग्यो यो व्यापारो व्याटतिस्तत्र प्रवृत्तं विज्ञाय संजातलजः समुत्पन्नत्रपः कदाचिजातुचिन्मां निवारयेत्प्र -