पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८४ कादम्बरी । तम्, किं तपसोऽनुरूपम्, आहोस्विद्धर्मोपदेशाङ्गमिदम् | अपूर्वेयं विडम्बना केवलम् । अव - श्यकथनीयमिदम् । अपर उपायो न दृश्यते । अन्या प्रतिक्रिया नोपलभ्यते । अन्यच्छरणं नालोक्यते अन्या गतिर्नास्ति । अकथ्यमाने च महाननर्थोपनिपातो जायते । प्राणपरि- त्यागेनापि रक्षणीयाः सुहृदसव इति कथयामि । 'अस्ति भवत्याः समक्षमेव स मया तथा निष्ठुरमुपदर्शित कोपेनाभिहितः । तथा चाभिधाय परित्यज्य तं तस्मात्प्रदेशादुपजातमन्युरु- त्सृष्टकुसुमावचयोऽन्यप्रदेशमगमम् | अपयातायां च भवत्यां मुहूर्तमिव स्थित्वकाकी किमय- मिदानीमाचरतीति संजात वितर्क: प्रतिनिवृत्त्य विटपान्तरितविग्रहस्तं प्रदेशं व्यलोकयम् । यावत्तत्र तं नाद्राक्षम् | आसीञ्च मे मनस्येवम् - किं नु मदनपरायत्तचित्तवृत्तिस्ता मेवानुसर- न्गतो भवेत् । गतायां च तस्यां लब्धचेतनो लेजमानो न शक्नोति मे दर्शनपथमुपगन्तुम् । आहोस्वित्कुपितः परित्यज्य मां गतः । उतान्वेषमाणो मामेव प्रदेशमन्यमितः समाश्रितः स्यात्' इत्येवं विकल्पयन्कंचित्कालमतिष्टम् । तेन तु जन्मनः प्रभृत्यनभ्यस्तेन तस्य क्षणम- . सटानां समुचितं योग्यम् । किं तपसो नियमविशेषस्यानुरूपं सदृशम् । आहोस्विद्वितर्के । इदं धर्मं• पदेशस्याङ्गं कारणम् । केवलमपूर्वाभिनवा विडम्बना कदर्थना | अवश्यं निश्चयेनेदं कथनीयं प्रतिपादनी- यम् । एतस्मिन्नर्थे हेतुमाह - अपर इति । अपर एतव्यतिरिक्त उपाय: कारणं न दृश्यते नेक्ष्यते । अन्या प्रतिक्रिया चिकित्सा नोपलभ्यते न प्राप्यते । अन्यदेतद्व्यतिरिक्तं शरणमाश्रयणस्थलं नालोक्यते न विलोक्यते । अन्यैतद्भिन्ना गतिः प्रकारान्तरं नास्तीत्यर्थः । उक्तवैपरीत्यदूषणमाह - अकथ्येति । तस्मिन्न प्रतिपाद्यमाने महाननर्थस्योपनिपातोऽकस्मात्पतनं जायते निष्पाद्यते । भवतु का नः क्षति- रित्याशयेनाह - प्राणेति । प्राणपरित्यागेनापि जीवितव्यावरोपणेनापि सुहृदां मित्राणामसवः प्राणा रक्ष णीया रक्ष्या इति हेतोः कथयामि ब्रवीमि । अस्तीति । भवत्यास्तव समक्षमेव प्रत्यक्षमेव | यदा कुमारेण पारिजातमञ्जरी तव कर्णावतंसीकृता तदा त्वदायत्तत्वात्पतितानक्षमालामपि नाज्ञासीत् । तस्मिन्व्या- मोहावसरे स पुण्डरीक उपदर्शितः कोपो येनैवंभूतेन मया तथा निष्ठुरं रूक्षमभिहितः कथितमस्ति । तथा च ते- न प्रकारेण चाभिधाय कथयित्वा तं पुण्डरीकं परित्यज्य तस्मात्प्रदेशात् । उपेति । उपजात उत्पन्नो मन्युः कोपो यस्य सः । उत्स्सृष्टेति । उत्सृष्टस्त्यक्तः कुसुमानां पुष्पाणामवचयो ग्रहणं येन सः | समित्कुशकुसुमावच - यनिमित्तमागतं तदपि प्रयोजनं कोपेन परित्यक्तमिति भावः । एवंविधोऽहमन्यप्रदेशं तदितरवनविभागमगम- मप्रजम् । अथ च भवत्यामपयातायां गतायां मुहूर्तमिव स्थित्वैकाक्यद्वितीयोऽयं पुण्डरीक इदानीं सांप्रतं कि- माचरति किमाचरणं करोतीति संजातो वितर्को विकल्पो यस्य सोऽहं प्रतिनिवृत्त्य व्याघुट्य विटपैर्वृक्षैरन्तरित- स्तिरोहितो विग्रहो यस्यैवंभूतस्तं प्रदेशं व्यलोकमपश्यम् । यावत्कालं तत्र तस्मिन्प्रदेशे तं कपिञ्जलं नाद्राक्षं न व्यलोकिषम द मे ममम सि चित्त ए पास किं ताकि स्विति अ