पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

9 पूर्वभागः । २८३ वसन्तसमयम्, वसन्तसमयस्येव दक्षिणानिलमनुरूपं सखायं मुनिकुमारकं कपिञ्जलनामानं जराघवेलितस्य क चुकिनोऽनुमार्गेण चन्द्रातपस्येव बालातपैमनुयायिनमपश्यम् । अन्तिक - पागतस्य चास्य पर्याकुलमिव सविषादमिव शून्यमिवार्थिनमिवानुपरताभिप्रेतमाकारमलक्षय- म् | उत्थाय च कृतप्रणामा सादरं स्वयमासनमुपाहरम् । उपविष्टस्य च वलाद निच्छतोऽपि प्रक्षा- हय चरणावुपमृज्य चोत्तरीयांशुक पल्लवेनाव्यवधानायां भूमावेव तस्यान्तिके समुपाविशम् । अथ मुहूर्तमिव स्थित्वा किमपि विवक्षुरिव स तस्यां समीपोपविष्टायां तरलिकायां चक्षुरपात - यत् | अहं तु विदिताभिप्राया दृष्ट्यैव 'भगवन्, अव्यतिरिक्तेयमस्मच्छरीरात् । अशङ्कितम- भिधीयताम्' इत्यवोचम् । एवमुक्तश्च मया कपिञ्जलः प्रत्यवादीत् - 'राजपुत्रि, किं ब्रवी- मि । वागेव मे नाभिधेयविषयमवतरति त्रपया | व कॅन्दमूलाशी शान्तो वननिरतो मुनि- जनः, क वायमनुपशान्तजनोचितो विषयोपभोगाभिलाषकलुषो मन्मथविविधविलाससंकटो रागप्रायः प्रपञ्चः । सर्वमेत्रानुपपन्नमालोकय | किमारब्धं दैवेन | अयत्नेनैव खलूपहासा- स्पदतामीश्वरो नयति जनम् । न जाने किमिदं वल्कलानां सदृशम्, उताहो जटानां समुचि- लमिव । वसन्तसमयस्य दक्षिणा निलमिवापाचीपवन मिव मुनिकुमारकं तापसवालकं कपिञ्जलनामानं जरा वि ससा तया धवलितय शुश्रीकृतस्य कलुकिनः सौविदलस्यानुमार्गे णपश्चाद्भागेन चन्द्रातपस्य शीतांशुप्रकाशस्या- नुयायिनं पश्चाद्गामिनं बालातपमित्र तमपश्यमवलोकयम् । एतेन कञ्जुकिकपिजलयोस्तत्समीपावधि सहागम- नेsपि वैलक्षण्यं योतितम् । अन्तिकमिति । अन्तिकं समीपमुपागतस्य प्राप्तस्यचास्य कपिजलस्य पर्याकुल- मिवात्यन्तव्याकुलमिव सविषादमिव सखेदमिव शून्यमिव नष्टचैतन्य मिवार्थिन मिव मार्गणमिवानुपरतम परिपूर्णम भिप्रेतं वाञ्छितं यस्मिन्नेतादृशमाकारमाकृतिमलक्षयमाकलयम् | उत्थाय च कृतः प्रणामो नमस्कारो ययैवंभू- ताहं सादरं सबहुमानं स्वयमात्मनासनं विष्टरमुपाहरमनयम् । तत्रोपविष्टस्यासीनस्य च बलाद्धठादनिच्छतो- sप्यवाञ्छतोऽपि चरणौ पादौ प्रक्षाल्य धावनं कृत्वोत्तरीयांशुकमुपसंव्यानांशुकं तस्य पल्लवेनांशुकेनोपमृज्य मार्जनं कृत्वा तस्यान्तिके तत्समीपेऽव्यवधानायां केवलायां भूमात्रेव समुपाविशमतिष्ठम् । अथेत्यानन्तर्ये | मू- हूर्तमिव स्थित्वा किमपि विवक्षुरिव वक्तुमिच्छुरिव स कपिञ्जलस्तस्यां समीपोपविष्टायां तरलिकायां चक्षुर्नेत्र- मपातयत्पातितवान् । अहं त्विति | तु पुनरर्थकः । दृष्टयैव दृशैव विदितो ज्ञातोऽभिप्राय आशयो यया सैवंभूताहमित्यवोचमित्यकथयम् । इतिवाच्यमाह - भगवन्निति । हे भगवन् हे खामिन् अस्मच्छ. रीरादियं तरलिकाऽव्यतिरिक्ता अभिन्ना, अतोऽशङ्कितं शङ्कारहितं यथा स्यात्तथाभिधीयतां कथ्यताम् । एवं पू- TITTE Tf fr