पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । २७ मनुजस्येव संस्कारवतो बुद्धिपूर्वा प्रवृत्तिः । तथा हि । अनेन समुक्षिप्तदक्षिणचरणेनोच्चार्य जयशब्दमियमार्या मामुद्दिश्य पैरिस्फुटाक्षरं गीता । प्रायेण हि पक्षिणः पशवश्च भयाहारमै- थुननिद्रासंज्ञामात्रवेदिनो भवन्ति । इदं तु मह चित्रम्' इत्युक्तवति भूभुजि कुमारपालित: किं. चिस्मितवदनोऽवादीत्-'किमत्र चित्रम् । एते हि शुकसारिकाप्रभृतयो विहङ्गविशेषा यथा- श्रुतां वाचमुच्चारयन्तीत्यधिगतमेव देवेन । तत्राप्यन्यजन्मोपात्तसंस्कारानुबन्धेन वा पुरुषप्रय- नेन वा संस्कारातिशय उपजायत इति नातिचित्रम्। अन्यदेतेषामपि पुरा पुरुषाणामिवातिप- रिस्फुटाभिधाना वागासीत् । अग्निशापात्वस्फुटालापता शुकानामुपजाता, कॅरिणां च जिह्वाप- रिवृत्तिः' इति । एवमुच्चारयत्येव तस्मिन्नशिशिरकिरणमम्बरतलस्य मध्यमध्यारूढमावेदयन्ना- सहिताम् । तत्रेति। पुनरपरमधिकमभिमतविषय उपादेयेऽर्थे तिरश्चोऽपि पक्षिणोऽपि मनुजस्येव मनुष्यस्येव संस्कारवत इति तत्तदर्थविषयानुभवजन्यः संस्काररतद्वतो बुद्धिपूर्वा प्रतिभाहेतुका प्रवृत्तिः प्रवर्तनं भवति । किमाश्चर्यमित्यर्थः । तदेवाद्भुतं दर्शयति-तथा हीति । अनेन शुकेन समुत्क्षिप्त ऊचीकृतो दक्षि- णचरणोऽपसव्यपादो येन स तथा तेन जयशब्दं जयजयारवमुच्चार्योदीर्येयमार्या पूर्वोक्ता मामुद्दिश्य परि- स्फुटानि व्यक्तान्यक्षराणि यथा स्यात्तथेति क्रियाविशेषणम् । गीता गानविषयीकृता । क्रिमित्यत आह- प्रायेणेति । प्रायेण बाहुल्येन पक्षिणः पतत्रिणः, पशवो मृगाद्याः । भयेति । भयमनिष्टहेतुज्ञानम्,आहारः क्षुधानिवृत्त्युपायः, मैथुनं व्यवायः, निद्रा बाह्येन्द्रियोपरमः, संज्ञा लोकव्यवहारजनकशब्दः, एतन्मात्रवेदिनो भवन्ति एतन्मात्रमेव जानन्ति । नाधिकम् । इदं तु महचित्रं महदाश्चर्यम् । इत्युक्तवतीतिभाषित- वति भूभुजि राज्ञि सति कुमारपालितः किंचिस्मितवदनः किंचिदीषस्मितं हास्यं तेन युक्तं वदनं यस्य स तथावादीदब्रवीत् । सर्वथा संभाव्यमानाद्भुतदर्शनेनानर्थशङ्कां निराकुर्वनाह–किमत्रेति । किमत्र चित्रमाश्चर्यम् । तत्रार्थे हेतुमाह-एते हीति । एते शुकाः प्रसिद्धाः सारिकाः पीतपादा एतत्प्रभृतयो विहङ्गविशेषा यथाश्रुतामर्थबोधशून्यां वाचं गिरमुच्चारयन्ति ब्रुवन्ति । देवेन खामिनेति पूर्वोक्त मधिगतमेव ज्ञातमेव । एतेन खानुभवोऽपि सूचितः । अत्रापि कारणान्तरसाचिव्यं दर्शयन्नाह-तत्रापीति । तत्रापि पूर्ववक्तव्यतायामन्यजन्मनि पूर्वजन्मन्युपात्तो गृहीतो यः संस्कारः पूर्वोक्तलक्षणस्तरयानुबन्धो- च्छित्तिस्तेन वा पुरुषाणाम् । अर्थात्प्रेक्षावताम् । प्रयत्नेनोद्योगेन वा संस्कारेऽतिशयो दाढ्यमुपजायत उत्पद्यते । ताभ्यां हेतुभ्यां वाग्व्यापारयुक्ता भवन्तीति भावः । इति अतो नातिचित्रम् । अत्रान्यदपि कारणमस्तीत्याशयेनाह-अन्यदिति । अन्यदपि कारणान्तरमस्ति । तदेव दर्शयति--एतेषामिति । एतेषां शुकादीनां पुरा पूर्व प्राचीनपुरुषाणामिवातिपरिस्फुटमति विषदम भिधानं नाम यस्यामेवंविधा वागासीत् । तु पुन र्थे । अग्निशापादस्फुटालापता शुकादीनामुपजातेति स्पष्ट । अनायं प्रवादः।