पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी। अपसृते च तस्मिन्स विहङ्गराजो राजाभिमुखो भूत्वोन्नमय्य दक्षिणं चरणमतिर र्णस्वरसंस्कारया गिरा कृतजयशब्दो राजानमुद्दिश्यार्यामिमां पपाठ 'स्तनयुगमश्रुस्नातं समीपतरवर्ति हृदयशोकाग्नेः । चरति विमुक्ताहारं व्रतमिव भवतो रिपुस्त्रीणाम् ॥ २१ ॥ राजा तु तामाया श्रुत्वा"संजातविस्मयः सहर्षमासन्नवर्तिनम्,अतिमहाघहेमासनोप अमरगुरुमिवाशेषनीतिशास्त्रपारगम्, अतिवयसम, अग्रजन्मानम्, अखिले मन्त्रिमण्ड धानममात्यं कुमारपालितनामानमब्रवीत्---'श्रुता भवद्भिरस्य विहङ्गमस्य स्पष्टता वर्णो खरे च मधुरता। प्रथमं तावदिदमेव महदाश्चर्यम् , यदयमसंकीर्णवर्णप्रविभागामभिव्य त्रानुस्खारसंस्कारयोगां विशेषसंयुक्तां गिरीमुदीरयति। तत्र पुनरपरमभिमतविषये तिर 7 अपेति । तस्मिन्पुरुषेऽपसृते दूरीभूते सति स पूर्वोक्तो विहङ्गानां पक्षिणां राजा विहङ्गराजः । हःसखिभ्यष्टच' । राजाभिमुखो नृपसंमुखो भूत्वा दक्षिणमपसव्यं चरणं पादमुन्नमय्योकृित्य । शु शब्दोच्चारणे तादृशोऽयं जातिखभावः । अतीति । अतिस्पष्टा अतिव्यक्ता वर्णा अक्षराणि खरा दयस्तेषां संस्कारः परिपाको यस्यां सा तथा तया । यद्यप्यन्यत्र शुकादीनामस्पष्टो वर्णस्तथाप्येत वर्ण इति विशेषः । एवंविधया गिरा वाण्या राजानमुद्दिश्य कृतो विहितो जयशब्दो येन स इमामग्रे वक्ष्यमाणामार्या पपाठापाठीत् । स्तनेति । भवतस्तव रिपुस्त्रीणां दस्युवनितानां स्तन युग्मं व्रतमिव नियममिव चरत्यासेवते । तदेव विशिनष्टि–अश्विति । अश्रुभिर्न यनसलिलैः स्नातं कृत समीपेति । समीपतरवर्ति संनिहितवर्ति । कस्य । हृदयशोकः स्वभर्तृवियोगजनितं दुःखं तदेवाग्निर्व विमुक्तस्त्यक्त आ समन्ताद्धारो येन तत्तथा । अन्योऽपि यो व्रतं चरति सोऽपि विमुक्ताहारः कृतस्त्र समीपस्थायी च स्यात् ॥ २१ ॥ राजा तु नृपोऽपि तामार्यां गाथां श्रुत्वाकर्ण्य संजात विस्मयः समुत्पन्नाश्चर्यः सहर्ष सप्रमोद यथा सन्नवर्तिनं समीपवर्तिनम् । कुमारेति । कुमारपालित इति नाम यस्यैवंभूतममात्यं सचिवमब्रवीद अथामात्यं विशेपयन्नाह--अतीति । अतिमहाघमतिबहुमूल्यं यद्धेमासनं सुवर्णासनं तत्रोपविष्टं अशेषेति । अशेषाणि समग्राणि यानि नीतिशास्त्राणि लोककृत्यविवेकाविवेकप्रतिपादकानि तन्त्रा पारगं रहस्यवेत्तारम् । कमिव । अमरगुरुमिव बृहस्पतिमिव । अतीति । अत्यधिकं वयो दिवर यस्य स तथा तम् । अग्रेति । अग्रे प्रथमवणे जन्म यस्य स तम् । ब्राह्मणमित्यर्थः । अखिलेति। समग्रे मन्त्रिमण्डले धीसचिवसमुदाये प्रधान मुख्यम् । श्रुत्तेति। भवद्भिर्युष्माभिरस्य विहङ्गमस्य शुक कादयस्तेषामुच्चारणे वक्तव्यतायां स्पष्टताश्लिष्टता श्रुताकर्णिता। तथा खरे खरविषये मधुरता माधुर्यम् पुनरर्थकः । प्रथममिति । प्रथममादौ तावदित्यन्यव्यवच्छेदार्थः । इदमेव प्रत्यक्षगतमेव महदाश्चर