पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ कादम्बरी। डिकाच्छेदप्रहतपटुपटहनादानुसारी मध्याह्नशङ्खध्वनिरुदतिष्ठत् । तमाकर्ण्य च समासन्न- स्नानसभयो विसर्जितराजलोकः क्षितिपतिरास्थानमण्डपादुत्तस्थौ । अथ चलति महीपतावन्योन्यमतिरभससंचलनचालिताङ्गदपत्रभङ्गमकरकोटिपाटितांशु- कपटानाम् , आक्षेपदोलायमानकैण्ठदानाम् ,अंसस्थलोलासितकुङ्कुमपटवासधूलिपटलपिञ्जरी- कृतदिशाम्, आलोलमालतीपुष्पशेखरोत्पतदलिकदम्बकानाम् , अर्धावलम्विभिः कर्णोत्पलैश्च- म्व्यमानगण्डस्थलानाम् , गमनप्रंणामलालसानामहमहमिकया, वक्षःस्थलप्रेलोलितहारलता- नाम्, उत्तिष्ठतामासीत्संभ्रमो महीपतीनाम् । इतश्चेतश्च निःपतन्तीनां स्कन्धावसक्तचामराणां चामरग्राहिणीनां कमलमधुपानमत्तजरत्कलहंसनादर्जरितेन पदेपदे रणितमणीनां मणिनूपु- दित्यन्वयः । किं कुर्वन् । आवेदयज्ञापयन् । कम् । अम्बरतलस्य गगनतलभ्य मध्यं मध्यप्रदेशमशिशिर- किरणं श्रीसूर्यमध्यारूढं प्राप्तम् । अथ ध्वनि विशेषयन्नाह-नाडिकेति । नाडिका घटिका तस्याइछेदः प- रिसमाप्तिस्तस्यां प्रहतस्ताडितो यः पटुर्महान्पटहो दुन्दुभिरतस्य नादो निनादस्तमनुसतुं शीलमस्येति स तथा । तमिति तं ध्वनिमाकर्ण्य श्रुत्वा क्षितिपती राजास्थानमण्डपादुत्तस्थाबुस्थितो बभूव । राजानं विशिनष्टि-समासनेनि । समासन्नो निकटवर्ती स्नानसमय आप्लवनसमयो यस्य स तथा । विसर्जित इति । विसर्जितो निवर्तितो राजलोकः सेवकजनो येन स तथा । अथेति । उत्थानानन्तरं महीपतौ राज्ञि चलति सत्युत्तिष्टतामुत्थानं कुर्वतां महीपतीनां संभ्रमः संमर्द आसीदित्यन्वयः । अथ महीपतीन्विशेषयन्नाह-अन्योन्येति । अन्योन्यं परस्परमतिरभसेनातिवेगेन सं. चलनं गमनं तेन चालितानि खस्थानात्प्रच्या वितानि यान्यगदपत्राणि तेषां भगस्टनं तस्य या मकरकोटि- चक्रप्रदेशस्तेन पाटितानि छिन्नान्यंशुकानि गर्भसूत्रनिर्मितानि पटाः सूत्रनिर्मिता येषु ते तथा तेषाम् । आ- क्षेपेति । आक्षेपः परस्परसंलगता तेन दोलायमानानि चञ्चलानि कण्ठदामानि निगरणवन्धनस्रजो येषां ते तथा तेषाम् । अंसति । अंसस्थलेभ्यो भुजशिरःस्थलेभ्य उल्लासितान्युच्छ् सितानि यानि कुङ्कुमानि केसराणि पटवासः पिष्टातश्च तयोधूलिपटलं परागसमूहस्तेन पिञ्जरीकृताः पीतरक्तीकृता दिशः ककुभो यस्ते तथा तेषाम् । आलोलेति। आलोलाश्चञ्चला ये मालतीपुष्पाणां जातीकुसुमानां शेखरा अवतंसास्तदुपरिष्टा- दुत्पतन्तो भ्रमन्तोऽलयो भ्रमरास्तेषां कदम्बकानि समूहा येषां ते तथा तेषाम् । अर्धेति । अर्धावलम्विभि- रर्धभागलग्नैः । एवंविधैः कर्णोत्पलैः श्रवणन्यस्तनलिनैश्चुम्व्यमानमाश्लिष्यमाणं गण्डस्थलं कपोलात्परो भागो येषां ते तथा तेषाम् । गमन इति । गमने बजने यो राज्ञः प्रणामो नमस्कारस्तत्र लालसानां कृतस्पृहा- णाम् । कया । अहं शक्तोऽहं शक्त इत्यस्यामहमहमिका । मयूरव्यंसकादित्वात्साधुः । तया । वक्ष इति । वक्षःस्थले भुजान्तरे प्रेस्रोलितास्तरलिता हारलता मुक्ताफलस्रजो येषां ते तथा तेषाम् । ततश्चेति । तदा TCTT-TTTTTT PIT - rozhotos are for