पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२० कादम्बरी । दानमप्यमदम्, अत्यन्तशुद्धस्वभावमपि कृष्णचरितम्, अकरमपि हस्तस्थितभुवनत राजानमद्राक्षीत् । आलोक्य च सा दूरस्थितैव प्रचलितरत्नवलयेन रक्तकुवलयदलकोमलेन पाणिना जर्ज. रितमुखभागां वेणुलतामादाय नरपतिप्रतिबोधनार्थ संकृत्सभाकुट्टिममाजघान, येन सक. लमेव तेंद्राजकमेकपदे वनकरियूथमिव तालशब्देन युगपदावलितवदनमवनिपालमुखादा- कृष्य चक्षुस्तदभिमुखमासीत् । अवनिपतिस्तु 'दूरादालोकय' इत्यभिधाय प्रतीहार्या निर्दिश्यमानां तां वयःपरिणामशुंध्र- शिरसा रक्तराजीवनेत्रापाङ्गेनानवरतकृतव्यायामतया यौवनापगमेऽप्यशिथिल शरीरसंधिना सत्यपि मातङ्गत्वे नातिनृशंसाकृतिनानुगृहीतार्यवेपेण शुभ्रवाससा पुरुषेणाधिष्ठितपुरोभागाम, मित्यर्थः । 'दानं गजमदे त्यागे पालनच्छेदशुद्धिपु' इति विश्वः । अत्यन्तेति । अत्यन्तमतिशयेन शुद्धो निर्मल खभावः प्रकृतिर्यस्यैवंभूतमपि कृष्णं श्यामं चरितमाचारो यस्येति विरोधः । परिहारपक्षे कृष्णः केशवोऽर्जुनो वा तद्वचरितं यस्येत्यर्थः । 'कृष्णस्तु केशवे । व्यासेऽर्जुने कोकिले व' इति विश्वः । अकरमिति । न विद्यत करो हरतो यस्यैवंभूतमपि हस्ते करे स्थितं भुवनतलं यस्येति विरोधः । तत्परिहारपक्षे न विद्यते करो द" यस्येति विग्रहः । 'बलिः करो भागधेयः' इति कोशः । आलोक्य चेति । राजानमालोक्य वीक्ष्य सा चाण्डालकन्यका सहसैव नृपसंनिधी गमनमनभिनय. क्षणमिति दूर स्थितैव दविष्टप्रदेशस्थैव वेणुलतां वंशयष्टिमादाय गृहीत्वा । नरेति । नरपते राज्ञः प्रतिबोधन संमुखीकरणं तदर्थ सभाकुटिमं परिषद्बद्धभूमि सकृदेकवारं पाणिना हस्तेनाजघान ताडयामास । अथ पाणि विशेषयन्नाह-प्रचलितमिति । प्रचलितं प्रकम्पित रत्नवलयं मणिखचित कङ्कणं यस्मात्स तथा तेन । रक्त- मिति । रक्तं यत्कुवलयं कुवेलं तस्य दलानि पत्राणि तद्वत्कोमलेन युकुमारेण । अनेन लक्षणोपेतत्वं ... स्तस्य सूचितम् । वेणुयष्टिं विशेषयन्नाह-जर्जरितेति । जर्जरितो जर्जरीभूतो मुखभागोऽग्रभागो यस्याः ना तथा ताम् । अग्रभागदलनाच्छन्द विशेषो जायत इति प्रसिद्धेः । येनेति । येन ध्वनिना सकलमेव तद्राज: राजसमूहहः । युगपदिति । युगपत्समकालमावलितं परावर्तितं वदनं मुखं येनैवंभूतं तदभिमुखं तम्या : संमुखमासीदभवत् । किं कृत्वा । आकृण्याकर्षणं कृत्वा । कस्मात् । अवनिपालमुखाद्राजवदनात् । किम् । चक्षुर्नत्रम् । तत्रोपमानम् । किमिव । वनकरिणामरण्य हस्तिनां यूथमिव समूहमिव । केन । तालशदकर तालो वाद्यविशेषस्तस्य शब्देन तदुत्थध्वनिना । एकपद एककालम् । एकश्रेणीभूतत्वमात्रे दृष्टान्तः । अवनीति । अवनिपती राजा तु तामनिमिपे निमेषोन्मेपवर्जिते लोचने यस्यैवंभूतो ददर्शयन्वयः । क.. थंभूतां ताम् । निर्दिश्यमानां लोचनविषयीक्रियमाणाम् । कया । प्रतीहार्या द्वाररक्षानियुक्तया। किं कृत्वा । अभिधाय कथयित्वा । किम् । दुरादालोकयेति दूरादेव प्रेक्षस्वेति । राज्ञ इति शेषः । इतश्चाण्डालकन्यका नि- शेषयन्नाह--अधीति अधिष्टित आश्रितः पुरोभागोऽग्रभागो यस्याः सा तथा ताम् । केन । पुरुषेण पुंगा ।