पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । १९ सेवार्थमागताभिरिव दिग्वधूभिवार विलासिनीभिः परिवृत्तम्, अमलमणिकुट्टिमसंक्रान्तसक- लदेहप्रतिविम्बतया पतिप्रेम्णा वसुंधरया हृदयेनेवोह्यमानम्, अशेषजनभोग्यतामुपनीतया- प्यसाधारणया राजलक्ष्म्या सैमालिङ्गितदेहम, अपरिमितपरिवारजनमध्यद्वितीयम्, अनन्त- गजतुरगसाधनमपि खड्गमात्रसहायम्, एकदेशस्थितमपि व्याप्तभुवनमण्डलम् , तमपि धनुपि निपण्णम्, उत्सादितद्विषदिन्धनमपि ज्वलत्प्रतापानलम्, आयतलोचनमपि सूक्ष्मदर्शनम्, महादोपमपि सकलगुणाधिष्ठानम् , कुपतिमपि कलत्रवल्लभम् , अविरतप्रवृत्त- आसने स्थि- र्यस्य स तम् । अत्राभरणदीप्तिहरनेत्रोद्भववयो राजमकरध्वजयोश्चोपमानोपमेयभावो दर्शितः । आसन्नेति। आसन्नवर्तिनीभिर्निकटस्थायिनीभिः सर्वतो विश्वतः सेवार्थ सपर्यार्थमागताभिः प्राप्ताभिरविलासिनीभिर्वा- राजनाभिः । काभिरिव । व्यापकलाद्दिश एव वध्वः स्त्रियो दिग्वध्वस्ताभिरिव । अत्र दिग्वधूवारविलासिन्योः साम्यं सृचितम् । ताभिः परिवृतं परिवेष्टितम् । अमलेति । अमलाः स्वच्छा ये मणयश्चन्द्रकान्ताद्यास्तेषां कु- टिमं बद्धभूस्तस्मिन्संक्रान्तं यत्सकलदेहप्रतिविम्वं समग्रशरीरप्रतिच्छायस्तरय भावस्तत्ता तया। हेलर्थे तृतीया । पतिः स्वामी तस्य प्रेम प्रीतिस्तेन च वसुंधरया पृथिव्या हृदयेनेव स्वान्तेनेवोामानं वहमानम् । अशेषेति । अशेषाः रामग्रा ये जना लोकास्तेषां भोग्यतां भोगयोग्यतामुपनीतया प्राप्तयापि । सर्वसाधारणयेत्यर्थः । असाधारणया च तथा चान्येपामेतादृशी राजलक्ष्मीनास्तीत्यपकर्षात्काभ्यां साधारणासाधारणया च राज- लक्ष्म्या समालिङ्गितमुपगृहितं देहं शरीरं यस्य स तथा तम् । अत्र विरोधाभासोऽलंकारः । साधारणासा- धारणयोर्विरुधर्मसात् । तत्परिहारपक्षेऽसाधारणया । सर्वोत्कृष्टयेत्यर्थः । अपरिमितेति । अपरिमितोऽसं- ब्येयः परिवारजनः परिच्छदजनो यस्य रा तम् । एवं बहुजनत्वेऽप्यद्वितीयं न द्वितीयो जनो यस्येति विरोधः। तत्परिहारपक्षेऽद्वितीय इत्यस्य सर्वोत्कृष्टत्वमित्यर्थः । अनन्तेति । अनन्तान्यसंख्यानि गजा हस्तिनस्तुरगा अश्वास्तेषां साधनान्युपकरणानि सहाया यस्य । 'निर्वर्तनोपकरणानुव्रज्यासु च साधनम्' इत्यमरः । एवं च बहुसहायवत्त्वेऽपि केवलं खड्ग ः खगमात्रं सहायो यस्येति विरोधः । तत्परिहारपक्षे खङ्गमात्रसहायमित्यस्य युद्धे तदन्यानपेक्षत्वमित्यर्थः । एकदशस्थितमिति । एकदेशः सभामण्डपादिः, जनपदो वा । तत्र स्थितमपि निपण्णमपि व्याप्त समाक्रान्तं भुवनमण्डलं जगन्मण्डलं येनेति विरोधः । परिहारपक्षे व्याप्तं ख्यातं भुवनमण्डले यमिति विग्रहः (१)। विशेषेणाप्तं व्याप्तमिति वार्थः। 'व्याप्तं ग्ल्याते समाकान्ते' इति विश्वः । आसने स्थित. मिति ! आसने भद्रासने स्थितमप्युपविष्टमपि धनुपि कार्मुके निपणं स्थितमिति विरोधः । परिहारपक्षे ध- नुःसंज्ञा तस्मिस्थित मित्यर्थः । नामश्रवणेन विपक्षाणां साक्षादागत इव इति भयोत्पत्तेः । धनुःसंज्ञा प्रियालद्रौ' इति विश्वः । उत्सादितेति । उत्सादितं व्यापादितं द्विषन्त एवेन्धनमेधो येन । एवंभूतमपि ज्वलत्प्रतापान- लमिति विरोधः । परिहारपक्षे ज्वलदित्यस्य दीप्यदित्यर्थः । आयतेति। आयते विस्तीर्ण लोचने यस्यैवंभूत- मपि सूक्ष्ममविपुलं दर्शनं लोचनं यस्येति विरोधः । परिहारपक्षे सूक्ष्ममध्यात्मविषयं दर्शनं ज्ञानं यस्येत्यर्थः।