पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९८ कादम्बरी | । नोद्वेगकरः प्रजागरः । विशेषेण राज्ञाम् | विरला हि तेषामुपदेष्टारः | प्रतिशब्दक ईव राज- यचनमनुगच्छति जनो भयात् । उद्दामदपश्च पृथुस्थगितश्रवणविवराञ्चोपैदिश्यमानमपि ते न शृण्वन्ति । शृण्वन्तोऽपि च गजनिमीलितेनावधीरयन्तः खेदयन्ति हितोपदेशदायिनो गुरून् । अहंकारदाहज्वरमूर्छान्धकारिता विह्वला हि राजप्रकृतिः, अलीकाभिमानोन्मादका- रीणि धनानि, राज्यविर्षंविकारतन्द्राप्रदा रॉजलक्ष्मीः | आलोकयतु तावत्कल्याणाभिनिवेशी लक्ष्मीमेव प्रथमम् । इयं हि खङ्गमण्डलोत्पलवन विश्रमभ्रमरी लक्ष्मीः क्षीरसागरात्पारिजा- तपल्लवेभ्यो रागम्, इन्दुशकलादेकान्तवक्रताम्, उच्चैःश्रवसञ्चञ्चलताम्, कालकूटान्मोहन- शक्तिम्, मदिराया मदम्, कौस्तुभमणेष्टुर्यम्, इत्येतानि सहवास परिचयवशाद्विरह विनोद १० उद्योतः । न उद्वेगकरो न संतापजनकः प्रजागरो जागरणम् | केवलं तत्रैव नायमुपदेश इत्यत आह - विशेषेणेति । राज्ञां भूभुजामयमुपदेशो विशेषेणाधिक्येन प्रदातव्य इति भावः । राज्ञामनेक उपदेष्टारः किं तवोपदेशेनेत्यत आह — विरलेति | हि निश्चितम् । तेषां राज्ञामुपदेष्टार उपदेशदातारो विरलाः स्तोकः । यतो राज्ञामुपदेशसमर्थोऽत्युत्कृष्टो विवक्षितोऽस्मदादिः, न त्वन्यो जनः । तदेव प्रदर्शयन्नाह – प्रतिशब्दक इवेति । जनो लोको भयाद्वीते राजवचनं नृपवचोऽनुगच्छति नृपवचनानुगो भवति । न तु प्रत्युत्तरं दातुं समर्थ इति भावः । क इव । प्रतिशब्दक इव प्रतिध्वनिरिव | यथा सोऽपि मूलशब्दसाम्येनानुगच्छति । केषांचिदुपदेशश्रवणमेव नास्तीयत आह – उद्दामेति । उद्दाम उत्कटो दर्पोऽहंकारो येषां ते च । पृथु यथा स्यात्तथा स्थगितान्या- च्छादितानि श्रवणविवराणि कर्णच्छिद्राणि येषां ते च । द्वौ चकारावेककालं सूचयतः । एवंविधा राजान उ पदिश्यमानमपि कथ्यमानमपि हितोपदेशमिति न शृण्वन्ति नाकर्णयन्ति | कदाचिच्छृण्वन्तोऽप्या कर्णयन्तो- ऽपि गजो हस्ती तस्य यनिमीलितं नेत्रसंकोच स्तद्वन्निमीलितेनावधीरयन्तोऽनादरं कुर्वन्तः । हितोपदेशदा- यिनः शिक्षाकथकान्गुरून्खेदयन्ति । दुःखं प्रापयन्तीत्यर्थः । अथ नृपस्वभावं प्रदर्शयन्नाह - राजेति । हि निश्चितम् । एतादृशी राजप्रकृती राज्ञां स्वभावो विहला व्याकुला | अहमिति । अहंकार एव दाहज्वरस्तीव्र- तापस्तद्धेतुका या मूर्च्छा मोहस्तयान्धकारितान्धकार इवाचरिता | वनराज्यलक्ष्म्याः स्वरूपं प्रदर्शयन्नाह – अ लीकेति । अलीकोऽवास्तवो योऽभिमानोऽहकार उन्मादश्च तावुभौ कुर्वन्तीति तान्येवंविधानि धनानि द्र- व्याणि | राज्यमिति । राज्यमेव विपं गरलं तस्माद्यो विकारो विकृतिस्तेन कृत्वा तन्द्रालस्यं तत्प्रदा राजलक्ष्मी राज्यश्रीः। नेदं पूर्वोक्तमतथ्यं किंतु सत्यमेवेत्याह – आलोकयन्विति कल्याणे मङ्गलेऽभिनिवेश आग्रहो यस्यै- वंभूतस्त्वं तावदादौ लक्ष्मीमेव प्रथममालोकयतु विचारयतु । लक्ष्मीदोषानाह - इयमिति | हि निश्चितम् इयं प्रत्यक्षोपलम्यमाना खज्ञानां कौक्षयकाणां यन्मण्डलं संघातस्तदेव कृष्णत्वसाम्यादुत्पलवनं तत्र विश्रमोऽव- स्थितिस्तस्मिंश्चञ्चलत्वसाम्यामरी मधुकरी लक्ष्मीः | पुनर्दोषान्तरं प्रदर्शयन्नाह — क्षीरेति । यदा कश्चिदें- शान्तरं गन्तुमीहते तदासौ च सहवासिस्मृतिहेतोस्तदीयं किंचिद्वस्वादायैव गच्छति, तथेयमपि सहवासज- नितो यः प चयः संवन्धविशेषता हासिरिज तादीनि वस्नग्रही त्रैवादायै क्ष ग -