पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । १९७ इतरस्य तु करिण इव शङ्खाभरणमाननशोभासमुदयमधिकतरमुपजनयति । हेरत्यैतिमलिनम- न्धकारमिव दोपजातं प्रदोपसमय निशाकर इव गुरूपदेशः प्रशमहेतुर्वर्यः परिणाम इव पलि- तरूपेण शिरसिजजालममलीकुर्वन्गुणरूपेण तदेव परिणमयति । अयमेव चानास्वादित वि षयरसस्य ते काल उपदेशस्य | कुँसुमशरशर मँहारजर्जरिते हि हृदि जलमिव गलत्युपदि- ष्टम् | अकारणं च भवति दुष्प्रकृतेरन्वयः श्रुतं चाविनयस्य | चन्दनप्रभ॑वो न दहति किम- नलः । किं वा प्रशमहेतुनापि न प्रचण्डतरीभवति वडवानलो वारिणा | गुरूपदेशश्च नाम पुरुषाणामखिलमलप्रक्षालनक्षममजलं स्नानम्, अनुपजात पलिता दिवैरूप्यमजरं वृद्धत्वम्, अनारोपित मेदोदोषं गुरूकरणम्, असुवर्णविरेचनमग्राम्यं कर्णाभरणम्, अतीतज्योतिरालोकः, . त्यर्थः । अत्रार्थेऽनुभवसिद्धं दृष्टान्त माह- सलिलेति । यथा सलिलं पानीयमतिस्वच्छमपि कर्णगतं महाव्य- थाजनकं स्यात् । दोषाभावे वाह - इतरस्य वधिकतर माननशोभासमुदयमुपजनयति विदधाति । क इव । शङ्खो जलजस्तस्याभरणं भूषणं करिण इव हस्तिन इव । हस्तिनां दृष्टिदोषबाधनार्थं शङ्खाभरणं कर्णे बध्यत इति लोक- रीतिः । अतिमलिनमतिश्यामं दोषजातं दूषणसमूहमन्धकार मिव तिमिरमिव हरति दूरीकरोति । क इच प्रदो- पसमयनिशाकर इव यामिनीमुखचन्द्रोदय इव | प्रकारान्तरेणाह- प्रशम इति । प्रशमोऽन्तरिन्द्रियनिग्रहस्त- द्धेतुर्गुरूपदेशः शिरसिजजालं शिरोरुहभारममलीकुर्वन्गुणरूपेण तदेव परिणमयति परिपाकं नयति । क इव | व यःपरिणाम इवावस्थापरिणतिरिव । यथा सोऽपि शिरसिजजालं केशसमूहं पलितरूपेणाम ली कुर्वरतदेव शिरसिज जालं गुणरूपेण परिणमयति । तन्निदानमेव प्रथमे वयसि किमुपदेशेनेत्यत आह – अथमिति । अयमेव नापरस्ते तवोपदेशस्य कालः शिक्षाप्रदानसमयः । अत्रार्थे हेतुं प्रदर्शयन्नाह - अनास्वादीति । न विद्यत आस्वादोऽनु- भवो यस्यैवंविधो विषयरसो यस्य तथा तस्य | आस्वादित विषयस्य तूपदेशो निरर्थकः स्यादित्याह- कुसुमेति । हि निश्चितम् । कुसुमशरः कंदर्पस्तस्य शरा वाणास्तेषां प्रहारा अभिघातास्तैर्जर्जरिते शिथिलीभूते हृद्युपदिष्टमुपदे- शविषयीकृतं जलमिच गलति क्षरति विनश्यति । निरर्थकं भवतीत्यर्थः । दोषान्तरमाह - अकारणं चेति । उपशमादिकार्यजनकं न भवतीत्यर्थः । ननु मदनशरप्रहारजर्जरितहृदयस्योपदेशाभावेऽप्युपदेशकार्य प्रशमादिकं सर्वमन्वयो वंशः, श्रुतं च शास्त्रम्, ताभ्यामेव भविष्यतीत्याशयेनाह - दुष्प्रकृतेरिति । दुष्प्रकृतेर्दुरात्मनस्ता- दृशहृदयस्यान्वयः श्रुतं चाविनयस्य हेतोर्भवति । न तु विनयायेत्यर्थः । ननु सुवंशजस्य कथमविनये प्रवृत्तिरि त्यत आह - चन्दनेति । चन्दनं मलयजं तस्मात्प्रभवो ययैवभूतोऽनलो वह्निः किं न दहति न भस्मीक- रोति। परस्परसंघर्पदोषे सति चन्दनात्समुत्थितोऽग्निर्दहत्येवेति । ननु प्रशम हेतुभूताच्छुतात्कथमविनयोत्पत्ति- रित्यत आह - किं वेति । प्रशमहेतुनापि वारिणा किं वडवानलो वाडवाग्निस्तोयधेः प्रादुर्भवति, सर्वलोकवि- नाशाय सर्वदा महासमुद्रे तिष्ठति, यस्य वडवामुख इति प्रसिद्धिः । न प्रचण्डतरीभवति प्रचलतरो न स्यात् । अथ प्रकारान्तरेण गुरुवचनमाहात्म्यं वर्णयन्नाह - गुर्विति । नामेति कोमलामन्त्रणे | गुरूणां हिताहित पहिरोपदेषणासप्रदेश: शिक्षा पण म) अजलं जलव्यतिरेप: । की। अखिलः . -