पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । १९५ क्षणमुपचीयमाना महती प्रीतिरासीत् | अभ्यधिकं च प्रतिदिनमस्य प्रसादमकरोत् । आत्म- हृदयाव्यतिरिक्तामिव चैनां सर्वविश्रम्भेष्वमन्यत । एवं समतिक्रामत्सु दिवसेषु राजा चन्द्रापीडस्य यौवराज्याभिषेकं चिकीर्षुः प्रतीहारानुपक- रणसंभार संग्रहार्थमादिदेश | समुपस्थितयौवराज्याभिषेकं च तं कदाचिदर्शनार्थमागतमारू- ढविनयमपि विनीततर मिच्छशुकनासः सविस्तरमुवाच -- 'तात चन्द्रापीड, विदितवेदित- व्यस्याधीत सर्वशास्त्रस्य ते नाल्पमप्युपदेष्टव्यमस्ति | केवलं च निसर्गत एवाभानुभेद्य मरलालो- कोच्छेद्यमप्रदीपप्रभापनेयमतिगहनं तमो यौवनप्रभवम् । अपरिणामोपशमो दारुणो लक्ष्मीम- दः । कष्टमनञ्जनवर्तिसाध्यम परमैश्वर्य तिमिरान्धत्वम् | अशिशिरोपचारहार्योऽर्तितीव्रो दर्पदा- हज्वरोष्मा | सततर्ममूलमन्त्रगम्यो विषमो विषयविषास्वादमोहः । नित्यमस्नानशौचवध्यो राग- मलावलेपः । अजसमक्षपावसानप्रबोधा बोरा च राज्यसुखसंनिपातनिद्रा भवतीति विस्तरेणा- दर्शनादारभ्यावलोकनात्प्रभृति प्रतिक्षणं क्षणं क्षणं प्रत्युपचीयमाना वृद्धिं प्राप्यमाणा महती प्रीतिर्महान्स्नेह आ सीदभूत् । अस्य प्रतिदिनं प्रत्यहमभ्यधिकमधिकाधिकं प्रसादं सद्वस्तुप्रत्यर्पणरूपमकरोत् । सर्ववियम्भेषु समग्र- विश्वासस्थलेष्वेनां पत्रलेखामात्महृदयादव्यतिरिक्तामिव स्वस्वान्तादभिन्नामिवामन्यत ज्ञातवान् | एवं पूर्वोक्तप्रकारेण समतिक्रामत्सु गच्छत्सु दिवसेषु राजा तारापीडश्चन्द्रापीडस्य यौवराज्ये योऽभि षेकस्तं चिकीर्षुः कर्तुमिच्छुः प्रतीहारान्द्वारपालानुपकरणस्य स्नानयोग्यसामग्र्याः संभार: समूहस्तस्य संग्रहार्थमानयनार्थमादिदेश आज्ञां दत्तवान् । समिति | समुपस्थितः संजातो यौवराज्याभिषेको यस्य स तम् । कदाचित्कस्मिंश्चित्समये दर्शनार्थमवलोकनार्थमागतं प्राप्तमारूडविनयमपि संप्राप्तविनयमपि | किंचि निगूडाभिप्रायः । विनीततरं विनम्नतरमिच्छन्वाञ्छञ्शुकनासः सविस्तरं सव्यासमुवाचाव्रवीत् । तदेवाह - तातेति संवोधनम् । हे पुत्र चन्द्रापीड ते तवाल्पमपि स्तोकमप्युपदेष्टव्यं वक्तव्यं नास्ति । तत्र हेतुमाह - अधीतेति । अवीतानि पठितानि सर्वशास्त्राणि येन स तथा तस्य । सर्वपदेन नीतिशास्त्रस्यापि परिग्रहः । अवीतशास्त्रत्वेऽपि तत्त्ववित्त्वाभावादुपदेष्टव्यमस्तीत्यत आह - विदितेति । विदितं ज्ञातं वेदितव्यं शास्त्राभि- प्रायो येन तस्य | आशयमुद्घाटयति – केवलं चेति । परं निसर्गत एव स्वभावत एवाभानुभेद्यमसूर्यच्छेद्यम् । अरनेति । न रत्नानां मणीनामालोकेनोच्छेद्यं दूरीकर्तुं योग्यम् | अप्रदीति । न प्रदीपप्रभया गृहमणि- कान्त्यापनेयं दूरीकरणीयम् । अतीति | अतिशयेन निरवधिकतया गहनमलब्धमध्यं यौवनं तारुण्यं ततः प्रभव उत्पत्तिर्यस्यैवंविधं तमोऽज्ञानम् । द्वितीयो लक्ष्मीमदो द्रव्यमदः । अपरीति । न विद्यते परिणामे- नोपशमो यस्य सः । अयं भावः - परिणामेनोपशम ओपथ्यादिषु प्रसिद्ध विपरीतमत्र वयःपरिणामेऽपि नोपशमः । दारुणो भयावहः । कटं दुःखरूपमपरं तृतीयमैश्वर्यमेव तिमिरमन्धकारं तेनान्वत्वं गताक्षत्वम् । अन अनेति । अञ्जनवतिर्विडालादिवसाञ्जनवर्तिस्तया तिमिरान्धत्वं विनश्यति । तदुक्तम् – 'अन्धकारे महाघोरे रात्रौ पठति पुस्तकम्' इति पदं वाजनवर्तेरपि न साध्यम् । न निवर्तयितुं शक्यमिति भावः । अशिशिरेति । न शिशिरैः शीतलॆरु चारैश्चन्दनादि महर्य: परिहर्तं य ग्यः अत्यन् मतिशयेन तीव्रः कठिनो दर्पोऽभि- 1