पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । नककलशशतसनाथामन्तर्विन्यस्तकाञ्चनपीठां स्नानभूमिमगात् । निर्वर्तिताभिषेकव्यापारस्य च विविक्तवसनपरिमृष्टवपुषः स्वच्छदुकूलपल्लवा केलित मौले गृहीतवाससः कृतदेवार्चनस्याङ्ग- रागभूमौ समुपविष्टस्य राज्ञा विसर्जिता महाप्रतीहाराधिष्ठिता राजकुलपरिचारिका: कुलव- र्धनासनाथाश्च विलासवतीदास्यः सर्वान्तः पुरप्रेषिताश्चान्तःपुर परिचारिका: पटलकविनिहि- तानि विविधान्याभरणानि माल्यान्यङ्गरागान्वासांसि चादाय पुरतस्तस्योपतस्थुरुपनिन्युश्च । यथाक्रममादाय च ताभ्यः प्रथमं स्वयमुपलिप्य वैशम्पायनर्मुपरचिताङ्गरागो दत्त्वा च समी- पवर्तिभ्यो यथार्हमाभरणवसनाङ्गरागकुसुमानि विविधमणिभाजन सहस्रसोरं शारदमम्बर- तलमिव स्फुरिततारागणमाहारमण्डपमगच्छत् । तत्र च द्विर्गुणितकुथासनोपविष्टः समीपो- पविष्टेन तद्गुणोपवर्णनपरेण वैशम्पायनेन चैथाई भूमिभागोपवेशितेन रौँजपुत्रलोकेन 'इद- मस्मै दीयताम् इदमै दीयताम्' इति प्रसाद विशेष दर्शन संवर्धित सेवारसेन च सहाहार- विधिमकरोत् | उपस्पृश्य च गृहीतताम्बूलस्तस्मिन्मुहूर्तमिव स्थित्वेन्द्रायुधसमीपसँगमत् । १९१ । विश्राम गृहीत्वा । मणीति | मणयश्चन्द्रकान्ताद्याः, रजतं रौप्यम्, कनकं सुवर्णम्, एतेषां यत्कलशशतं कुम्भशतं तेन सनाथां सहिताम् | अन्तर्भध्ये विन्यस्तं स्थापितं काञ्चनपीटं स्वर्णपीठं यस्यामेवंभूतां स्नानभूमि- मगाजगाम । निर्वर्तितेति । निर्वर्तितो निष्पादितोऽभिषेकव्यापारो यस्य स तस्य | विविक्ते विजने वसनं वस्त्रं तेन परिमृष्टं शुष्कीकृतं वपुर्येन स तस्य | स्वच्छेति । स्वच्छो निर्मलो यो दुकूलपल्लवस्तेनाकलितो वेष्टितो मौलिः शिरो यस्य स तस्य | गृहीतं स्वीकृतं वासो वस्त्रं येन स तथा तस्य । कृतं देवार्चनं देवपूजा येन स तस्य । अङ्गरागभूमौ विलेपनभूमौ समुपविष्टय राज्ञा तारापीडेन विसर्जिता विसृष्टा महाप्रतीहारेण महाद्वारपालकेनाधिष्ठिता आश्रिता राजकुलपरिचारिका नृपकुलसेवाकारिण्यः कुलवर्धना प्रगल्भा दासी तथा सनाथाः सहता विलासवती कुमारजननी तस्या दास्यः कुटहारिकाः ( ? ) | सर्वान्तःपुरप्रेषिता इति । सर्वं यदन्तः पुरं तेन प्रेषिता अन्तःपुर परिचारिकाश्चावरोव सेवाविवायिन्यः पटलकं वज्ञेरिका तस्यां विनिहितानि स्थापितानि विविधानि विचित्राण्याभरणानि भूषणानि, माल्यानि पुष्पदामानि, अङ्गरागान्विलेपनानि, वासांसि वस्त्राण्यादाय गृहीत्वा तस्य चन्द्रापीडस्य पुरतोऽग्रत उपतस्थुः स्थिता बभूवुः । उपनिन्युश्च । आनीतं वस्तू- पढौकयामासुरियर्थः । यथेति । यथाक्रममनुक्रमेण ताभ्योऽन्तःपुर परिचारिकाम्यस्तद्वस्त्वादाय गृहीत्वा प्रथममादौ वैशम्पायनमुरलिप्य पश्चात्स्वयमुपरचितः कृतोऽङ्गरागो येनैवंभूत आहारमण्डपं भोजनमण्डपमग- च्छदित्यन्वयः । किं कृत्वा । यथार्हं यथायोग्यमाभरणवसनाङ्गरागकुभुमानि समीपवर्तिभ्यः पार्थस्थायिभ्यो दत्त्वा वितीर्य | भोजनमण्डपं विशेषयन्नाह – विविधेति । विविधानि विचित्राणि यानि मणिभाजनानि रत्नपात्राणि तेषां राहस्रं तेन सारं प्रधानम् | भाजनानां वर्तुलत्वा दिसाम्यादुपमानान्तरमाह - शारदेति । स्फुरिततारागणं शारदमम्बरतलमिव । तत्र चेति । तत्र तस्मिन्मण्डप आहारविधि भोजनविधिमकरो- दिव्यन्वयः । द्विगुणितं परावर्तितं यत्कुथासनं तत्रोपविष्टः । समीपेति । समीपं पार्श्व तत्रोपविष्टेन स्थितेन । शाई