पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूवभागः । warg हेर्पप्रकर्पस्त मनवीत - 'तात, अद्य खलु देवस्य तारापीडस्य समाप्तविद्यमुपारूढयौवनमालोक्य भवन्तं सुचिराद्भुवनराज्य फलप्राप्तिरुपजाता | अद्य समृद्धाः सर्वा गुरुजनाशिपः | अद्य फ- लितमनेकजन्मान्तरोपात्तमवदातं कर्म । अद्य प्रसन्नाः कुलदेवताः | नै ह्यपुण्यभाजां भवादृशास्त्रिंभुवन विस्मयजैनकाः पुत्रतां प्रतिपद्यन्ते । केदं वयः | केयममानुषी शक्तिः । क चेदमशेष विद्याग्रहणसामर्थ्यम् | अहो, धन्याः प्रजा यासां भरतभगीरथप्रतिमो भवानुत्पन्नः पालयिता । किं खलु कृतमवदातं कर्म वसुंधरया ययासि भर्ता समासादितः । हरिवक्षःस्थ- लनिवासासग्रहसनितया हता खलु लक्ष्मी:, या विग्रहवती भवन्तं नोपसर्पति । सर्वथा कल्पकोटीमहावराह इव दंष्ट्रावलयेन वह बाहुना वसुंधराभारं सह पित्रा' इत्यभिधाय च स्वयमाभरणवसनकुसुमाङ्गरागादिभिरभ्यर्च्य विसर्जयांचकार । विसर्जितश्चोत्थायान्तःपुरं प्रविश्य दृष्ट्वा वैशम्पायनमातरं मनोरमाभिधानां निर्गत्य समारुह्येन्द्रायुधं पित्रा पूर्वकल्पि- तम्, प्रतिच्छन्दकमिव राजकुलस्य द्वारावस्थितसितपूर्णकलशम्, आयद्धहरित चन्दनमालम्, उल्हसित सितपताकासहस्रम् अभ्याहतमङ्गलतूर्यरवपरिपूरितदिगन्तरम् उपरचित विकच 9 १८५ 1 सौरावेद्यमानो हमेप्रकर्मोत्कर्षः प्रमोदो यस्य स तथा तं. चन्द्रापीडमब्रवीत् | हे तात हे पुत्र | 'तातस्तु पितृपुत्रयोः' इति कोशः । खलु निश्चितम् । अयास्मिन्दिने देवस्य तारापीडस्य समाप्तवियं परिपूर्णांकृता विद्या येनैव॑विधमुपारूढयौवनं संप्राप्ततारुण्यं भवन्तं त्वामालोक्य सुचिराचिरकालेन भुवनराज्यफलप्राप्तित्रिभुव नापयफलोपलब्धिरुपजाता प्रादुर्भूता | अय गुरुजनानां पूज्यजनानां सर्वा आशिष आशीर्वादाः समृद्धाः संप- त्तिभाजो बभूवुः । अद्यानेकजन्मान्तरोपात्तमनेकभवार्जितमवदातं शुद्धं कर्म फलितं फलवजज्ञे । अद्य कुलदेवताः कुलाधिष्टाञ्यः प्रसन्नाः प्रसादवत्यः । न हि अपुण्यभाजामधर्मवतां भवादृशा भवत्सदृशास्त्रिभुवनस्य त्रिविष्ट- पस्य विस्मयजनका आश्चर्योत्पादकाः पुत्रतां सुतत्वं प्रतिपद्यन्ते भजन्ते । केति महदन्तरे । इयं वयोवस्था क्व । इयं परिदृश्यमाना मानुषी मनुष्येष्वसंभाव्यमानैतादृशी शक्तिः पराक्रमः क्व । इदमशेष विद्याग्रहणसामर्थ्य न्च क्व । अहो इत्याश्चर्ये | धन्या भाग्यवत्यः प्रजाः प्रकृतयो यासां प्रजानां भरत आर्षभिः, भगीरथः सगरपौत्रः, ताभ्यां प्रतिभः सदृशो भवांस्त्वं पालयिता रक्षक उत्पन्नः । किमिति प्रश्न | खलु निश्चयेन | वसुं धरया पृथ्व्यावदातं शुद्धं कर्म किं कृतमाचरितं यया त्वं भर्ता प्रभुः समासादितः प्राप्तः असि । हरिवक्ष:- स्थले विष्णुभुजान्तरे यो निवासोऽवस्थितिस्तलक्षणो यो हो हठस्तव्यसनितया तदासक्ततया । खलु निश्च- येन लक्ष्मीः श्रीर्हता । दैत्रेनेति शेषः । या श्रीर्भवन्तं त्वां विग्रहवती शरीरधारिणी नोपरापति नाम्युपैति । अमूर्तरूपेण यद्यप्यनुसरति तथापि न मूर्तिविग्रहरूपेणेत्यर्थः । सर्वथेति । सर्वथा सर्वप्रकारेण कल्पकोटी- र्यावाहुना भुजेन वसुंधराभारं पित्रा सह जनकेन रामं वह धारय । दंष्ट्रावलयेन दाढामण्डलेन महावराह इव | इति पूर्वोक्त प्रकारेणाभिधायोक्त्वा । चकारः समुच्चयार्थः । स्वयमात्मनैव | आभरणेति । आभरणानि भूषणानि, वसनानि वस्त्राणि, कुसुमानि पुष्पाणि, अङ्गरागो विलेपनम् एतत्प्रभृतिभिर्वस्तुभिरम्यचयित्वा विसर्जिन E Featथानं वान्तः परमवरोधं प्रविश्य मध्ये